SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि बिरचिते आत्म प्रबोधग्रन्थे ॥१२७॥ Jain Education Inter विनीतो गुरुजन गौरवकृत्, विनयवति हि सद्यो ज्ञानादिसंपदः प्रादुर्भवंति १८ । [ इह विनीता विनीतछात्रयदृष्टांतो बोध्यः ] कृतज्ञः स्वल्पमप्युपकारमैहिकं पारत्रिकं वाऽपरेण कृतं जानाति, न निह्नुते इति तथोक्तः, कृतघ्नो हि सर्वत्राप्यमंदां निंदां समासादयतीत्यतः कृतज्ञत्वं युक्तं १९ । परहितारर्थक्रारी परेषामन्येषां हितान् हितकारकानर्थान् प्रयोजना कर्त्तुं शीलं यस्य स तथा, ननु प्रागुक्तेन सदाक्षिण्येन सहास्य को भेद इति चेदुच्य ते-सदाक्षिण्योऽभ्यर्थित एव करोति, अयं पुनः स्वत एव परहिताय प्रवर्त्तते इत्यनयोर्भेदः, यो हि प्रकृत्यैव परहितकारणे निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्धर्मे स्थापयतीति २० । तथा लब्धलक्षः लब्धमिव लब्धं लक्षं शिक्षणीयानुष्ठानं येन स तथोक्तः, ईदृशो हि पूर्वभवाभ्यस्तमिव सर्वमपि वंदनप्रत्युपेक्षणादिधर्मे कृत्यं झटित्येवाधिगच्छति २१ । तदेवमेकविंशतिगुणसंपन्नः श्रावको भवतीत्युक्ताः श्रावकगुणाः । अथोक्तगुणवत्स्वपि | भव्येषु ये देशविरतियोग्या भवति ते निर्दिश्यते— जे न खमंति परीसह भयसयणसिणेहविम यलो भेहिं । सव्वविरई घरेउं, ते जुग्गा देसविरईए ॥ ७ ॥ व्याख्या - ये प्रत्याख्यानावरणकषायोदयवर्त्तिनो जीवाः परीषहभय १ स्वजनस्नेह २ विषयलोभैः ३ कारणैः सर्वविरतिं धनुं न क्षमंते ते देशविरतेर्योग्या भवति । इदमत्र तात्पर्य - सद्धर्मसामग्रीं प्राप्य विवेकिना पूर्वं सर्वविरतिरे वादरणीया, यः पुनर्बुभुक्षातृषासन भिक्षाभ्रमणमलधारणादिपरीषहेभ्यो भीरुतया, तथेदृशमत्यंतंप्रीतिपात्रं मातृपितुपुत्रादिपरिजनं त्यक्त्या कथमेकाकिना भूयते ! इतिस्वजनस्नेहेन तथा प्राक्तनपुण्ययोगतः प्राप्ता अमींद्रियार्थाः कथमभुक्त्वा मुच्यते । इति विषयलोभेन वा स For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥१२७१ rww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy