SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ जिनलाभमूरि विरचिते मात्मप्रबोधग्रन्थे ॥ १२६॥ Jain Education Inter अशठो निश्छद्माचानिष्ठः शठो हि वंचनप्रपंचचतुरतया सर्वस्यापि जनस्याविश्वसनीयो भवति, इत्यतोऽशठत्वं युक्तं ७ | सदाक्षिण्यः, स्वकार्यपरिहारेण परकार्यकरणैकरसिकांतःकरणः, स हि सर्वस्यापि जनस्यानुवर्त्तनीयो भवति ८ । लज्जालु ति प्राकृतशैल्या लज्जावान् स खलु अकृत्य सेवनवार्त्तयापि ब्रीडति, स्वयमंगीकृतं सद नुष्ठानं च परित्यक्तुं न शक्नोति ९ । दयालुर्दयावान् दुःखितजंतुरक्षण भिलाषुक इत्यर्थः, धर्मस्य हि दयामूलमिति प्रतीतमेव १० । मध्यस्थो रागद्वेषविमुक्तबुद्धिः, स हि सर्वत्र रागद्वेषविवर्जिततया विश्वस्याप्यादेयवचनो भवति ११ । सौम्यदृष्टिः कस्यापि नोद्वेगकारी, स हि दर्शनमात्रेणापि प्राणिनां प्रीतिं पल्लवयति १२ । गुणरागी गुणेषु गांभीर्य स्थैर्यप्रमुखेषु रज्यतीत्येवशीलः, स हि गुणपक्षपातकारित्वात्सद्गुणान् बहु मन्यते | निर्गुणांश्चोपेक्षते १३ । सत्कथसपक्षयुक्तः, सत्कथाः सदाचारधारित्वात् शोभन प्रवृत्तिकथका ये सपक्षाः सहायास्तैर्युक्तः सहितो, धर्मानिषेधक परिवार इत्यर्थः एवंविधश्च न केनचित्परतीर्थिकादिना उन्मार्गे नेतुं शक्यते । अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथक गुणद्वयं मन्यंते, मध्यस्थः सौम्यदृष्टिश्चेति द्वाभ्यामप्येकमेवेति १४ । तथा सुदीर्घदर्शी सुपयलोचित परिणामपेशल कार्यकारी, न तु औत्सुक्यभाकू स किल प (पा) रिणामिक्या बुद्रया सुंदरपरिणाममेवैहिकमपि कार्यमारभते ॥ १५ ॥ विशेषज्ञः सारेतरवस्तुविभागवित् अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यतीत्यतो विशेषज्ञत्वमेव शोभनं १६ । वृद्धानुगः वृद्धान् परिणतमतिननुगच्छति गुणार्जनबुद्धया सेवते इति तथोक्तः, वृद्धजनानाम (जनाना) नुवर्त्तमानो हि पुमान् न कदाचिदपि विपदं प्राप्नोति १७ । For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥१२६॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy