SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ जिनलाभमूरि विरचिते मात्मप्रबोधग्रन्थे ॥ १२६॥ Jain Education Inter अशठो निश्छद्माचानिष्ठः शठो हि वंचनप्रपंचचतुरतया सर्वस्यापि जनस्याविश्वसनीयो भवति, इत्यतोऽशठत्वं युक्तं ७ | सदाक्षिण्यः, स्वकार्यपरिहारेण परकार्यकरणैकरसिकांतःकरणः, स हि सर्वस्यापि जनस्यानुवर्त्तनीयो भवति ८ । लज्जालु ति प्राकृतशैल्या लज्जावान् स खलु अकृत्य सेवनवार्त्तयापि ब्रीडति, स्वयमंगीकृतं सद नुष्ठानं च परित्यक्तुं न शक्नोति ९ । दयालुर्दयावान् दुःखितजंतुरक्षण भिलाषुक इत्यर्थः, धर्मस्य हि दयामूलमिति प्रतीतमेव १० । मध्यस्थो रागद्वेषविमुक्तबुद्धिः, स हि सर्वत्र रागद्वेषविवर्जिततया विश्वस्याप्यादेयवचनो भवति ११ । सौम्यदृष्टिः कस्यापि नोद्वेगकारी, स हि दर्शनमात्रेणापि प्राणिनां प्रीतिं पल्लवयति १२ । गुणरागी गुणेषु गांभीर्य स्थैर्यप्रमुखेषु रज्यतीत्येवशीलः, स हि गुणपक्षपातकारित्वात्सद्गुणान् बहु मन्यते | निर्गुणांश्चोपेक्षते १३ । सत्कथसपक्षयुक्तः, सत्कथाः सदाचारधारित्वात् शोभन प्रवृत्तिकथका ये सपक्षाः सहायास्तैर्युक्तः सहितो, धर्मानिषेधक परिवार इत्यर्थः एवंविधश्च न केनचित्परतीर्थिकादिना उन्मार्गे नेतुं शक्यते । अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथक गुणद्वयं मन्यंते, मध्यस्थः सौम्यदृष्टिश्चेति द्वाभ्यामप्येकमेवेति १४ । तथा सुदीर्घदर्शी सुपयलोचित परिणामपेशल कार्यकारी, न तु औत्सुक्यभाकू स किल प (पा) रिणामिक्या बुद्रया सुंदरपरिणाममेवैहिकमपि कार्यमारभते ॥ १५ ॥ विशेषज्ञः सारेतरवस्तुविभागवित् अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यतीत्यतो विशेषज्ञत्वमेव शोभनं १६ । वृद्धानुगः वृद्धान् परिणतमतिननुगच्छति गुणार्जनबुद्धया सेवते इति तथोक्तः, वृद्धजनानाम (जनाना) नुवर्त्तमानो हि पुमान् न कदाचिदपि विपदं प्राप्नोति १७ । For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥१२६॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy