SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जिवलाभवरि विरचिते भ्रात्म प्रबोधग्रन्थे ॥१२५॥ Jain Education Internat रत्नं, जिनप्रणीतो धर्मो देशविरत्यादिरूपः शुभाचारस्तस्य योग्य उचितः ईदृक्स्वरूप एव श्रावको भवति । तद्यथा - अक्षुद्र इत्यादि, तत्र यद्यपि क्षुद्रस्तुच्छा, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रो लघुरित्यनेकार्थवाचकः क्षुद्रशदोऽस्ति तथापीह तुच्छार्थी गृह्यते, तस्यैव प्रस्तुतोपयोगित्वात्, ततः क्षुद्रस्तुच्छोऽगंभीर इत्यर्थः, तद्विपरीतोऽक्षुद्रः, स च सूक्ष्ममतित्वान्सुखेनैव धर्ममवबुध्यते १ । रूपवान् संपूर्णांगोपांगतया मनोहराकारः, स च तथाविधरूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति । ननु नंदिषेण हरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ? इति चेत्सत्यं, इह रूपं द्विविधं सामान्यमतिशायि च । तत्र सामान्यं संपूर्णांगत्वादि, तच्च नंदिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकंचैतच्छेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात्, एवमग्रेऽपि । अतिशायि रूपं तु यद्यपि तीर्थंकरादीनामेव संभवति, तथापि येन रूपेण कचिदेशे काले वयसि वा वर्त्तमानः पुमान् रूपवानयमिति जनानां प्रतीतिमुपजनयति, तदेवेहाधिकृतं मंतव्यं २ । प्रकृतिसौम्यः प्रकृत्या स्वभावेन सौम्योऽभीषणाकृतिर्विश्वसनीयरूप इत्यर्थः एवंविधश्च प्रायेण न पापव्यापारे प्रवर्त्तते, सुखाश्रयणीयश्च भवति ३ । लोकप्रियः, लोकस्य सर्वजनस्य इहपरलोकविरुद्ध वर्जनेन दानशीलादिगुणैश्च प्रियो वल्लभः सोऽपि सर्वेषां धर्मे बहुमानं जनयति ४ । अक्रूरोऽक्लिष्ठाध्यवसायः क्रूरो हि परच्छिद्रान्वेषणलपटत्वेन कलुषितमनाः सन् धर्मानुष्ठानं कुर्वन्नपि न फलभाग्भवतीत्यतोऽकरस्वं युक्तं ५ भीरुः, ऐहिकामुष्मिका पायेभ्यस्त्र सनशीलः, स हि सत्यपि कारणे निःशंकमधर्मे न प्रवर्त्तते ६ । 1 For Private & Personal Use Only द्वितीय प्रका देशविरहि स्वप ॥ १२५॥ Jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy