________________
जिनलाभ. सरि विरचिते मात्मप्रबोधग्रन्थे ॥१२४॥
द्वितीय प्रकाशे देशविरति
खरूप ॥१२४॥
CAKKAKAR
ल्योपमपृथक्त्वलक्षणस्थितिक्षये देशविरतिः प्राप्यते, यदुक्तं प्रवचनसारोद्धारगतकोनपंचाशदधिकद्विशततमे द्वारे-सम्मत्तंमि य लद्धे, पलियपुहुत्तेण सावओ होइ । चरणोवसमग्खयाणं सायरसंखंतरा हुँति ॥ ३॥ ..
व्याख्या-यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथक्त्वलक्षणे स्थितिखंडे क्षपिते श्रावको देशविरतो भवेत् । ततश्चरणोपशमक्षयाणामंतरा संख्यातानि सागरोपमाणि भवंति । इयमत्र भावना-देशविरतिप्राप्त्यनंतरं संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु उपशमश्रेणिं प्रतिपद्यते, ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु क्षपकश्रेणिर्भवति, ततस्तद्भवे मोक्षः, इत्यादि। देशविरतेरवस्थानकालस्तु जघन्यतोऽतर्मुहत्तै उत्कर्षतो देशोना पूर्वकोटिरित्यवगंतव्यः । एवंरूपा देशविरतिर्येषां र विद्यते ते देशविरताः श्रावका उच्यते, यतो द्विविधाः श्रावका-विरता अविरताच, तत्र विरताः प्रतिपन्नदेशविरतय आनंदादयः, अविरता अंगीकृतक्षायिकसम्यक्त्वाः सत्यकिश्रेणिककृष्णादयः, इति । इह प्रकाशे च प्रतिपनदेशविरतीनां श्रावकाणां स्वरूपमभिधेयं, तन्निरूपणाय तावत् श्रावकत्वस्य योग्यताभिधायिनो ये एकविंशतिर्गुणास्तेऽभिधीयते-धम्मरयणस्स जुग्गो, अख्खुद्दो रूववं पगइसोमो । लोगप्पियो अकूरो, भीरू असढो सदक्खिन्नो ॥ ४ ॥ लजालुओ दयालू, मज्झत्यो सोमदिट्टि गुणरागी । सक्कहसुपक्खजुत्तो, सदीहदंसी विसे| सन्नू ॥५॥ वुट्टाणुगो विणीओ, कयन्नुओ परहियत्थकारी य । तह चेव लद्धलक्खो, इगवीसगुणो हवइ सक्दो ॥ ६ ॥ व्याख्या--परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते, स धर्म-3
Jain Education inter
For Private & Personal Use Only
O
w.jainelibrary.org