SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जिनलाभ सरि । विरचिते यात्मप्रयोपान्थे . ॥१२३॥ ॥ द्वितीयो देशविरतिप्रकाश आरभ्यते ॥ द्वितीय तत्र तावदुक्तस्वरूपसम्यक्त्वमूलकोत्तमात्मबोधप्रादुर्भावे सति केषांचिदासन्नभव्यानां यश्चारित्रमोहनीय-14 प्रकाशे कर्मक्षयोपशमतो देशविरत्यादिलाभः संपद्यते स प्रदर्यते देशविरति सदात्मबोधेन विशुद्धिभाजो, भव्या हि केचित्स्फुरितात्मवीर्याः । स्वरूपं भजंति सार्वोदितशुद्धधर्म, देशेन सर्वेण च केचिदार्याः ॥ १॥ ॥१२३॥ अस्याः-सता सद्भूतेनात्मबोधेन विशुद्धभाजो निर्मलीभूताः केचिद्भव्याः स्फुरितमुल्लसितमात्मवीर्यः | येषां ते तथाविधाः संतःसार्वोदितं सर्वज्ञप्रणीतं शुद्धं धर्म विरतिलक्षणं देशेन भजंति, केचित्पुनरार्याः सत्पुरुषाः सर्वेण भजति । एतावता केचिद्देशविरति लभते, केचित्सर्वविरतिमित्याशयः । तत्र तावद्देशविरतिप्राप्त्यादिस्व-18 | रूपमाविष्क्रियते-इह द्वितीयेषु कषायकेषु, क्षीणोपशांतेषु विशा तिरश्चा। सम्यक्त्वयुक्तेन शरीरिणैषा, लभ्येत-18 | देशाद्विरतिर्विशुद्धा ॥२॥ व्याख्या-देशेन प्राणातिपातादिपापस्थानेभ्यो निवृत्तिर्देशविरतिरित्युच्यते, सा एषा विशुद्धा देशविरतिदितीयेषु अप्रत्याख्यानक्रोधमानमायालोभलक्षणेषु चतुषु कषायेषु क्षीणोपशांतेषु सत्सु इहास्मिन् संसारे सम्यक्त्वयुक्तंन विशा मनुष्येण तिरश्चा तिर्यग्योनिकेन शरीरिणा प्राणिना लभ्येत, नान्यथेत्यर्थः, देवनारकयोस्तु एतत्प्राप्त्यसंभवादग्रहणमिति । किं च सम्यक्त्वप्राप्तिसमयभाविनि या कर्मस्थितिस्तन्मध्यात्प Jain Education Intel For Private & Personal use only Doww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy