SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि विरचिते आत्म प्रबोधग्रन्थे ॥ १२१ ॥ Jain Education Inter भोक्ता सिद्ध:-' सव्वं च परसतया, भुंजड़ कम्ममणुभावओ भइयं तथा-'नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । इत्यादिवचनात् । इत्थं च सिद्ध एष जीवः स्वकृतकर्मणां भोक्तेति ! अनेन हि अभोक्तृजीववादिनां दुर्मतं निराकृतं ४ । तथा पुनरस्य जीवस्यास्ति विद्यते निर्वाणं मोक्षः, अयमर्थः- विद्यमानस्यैव जीवस्य रागद्वेषमदमोह जन्मजरामरण रोगादिदुः खक्षयरूपोऽवस्थाविशेषो मोक्ष इत्युच्यते, सोऽस्य जीवस्यास्ति, न पुनरेतस्य सर्वथा नाश इति । एतेन प्रदीपनिर्वाणतुल्यमभावरूपं निर्वाणमस्तीत्याद्यसद्भूतं प्ररूपर्यंत ः सौगतविशेषा अपास्ताः, ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः तथा च तद्वचः- दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नांतरिक्षं । दिशं न कांचिद्विदिशं न कांचित्, स्नेहक्षयात्केवलमेति शांतिं ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिंगच्छति नांतरिक्षं । दिशं न कांचिद्विदिशं न कांचित्, क्लेशक्षयात्केवलमेति शांति ॥ २ ॥ इति । एतच्चायुक्तं दीक्षाग्रहणादिप्रयासवैयर्थ्यात्, प्रदीपदृष्टांतस्याप्यसिद्धत्वात् तथाहि न प्रदीपवहेः सर्वथा विनाशः, किं तु तथाविधपुद्गलपिरणामवैचित्र्यात्ते एव वह्निपुद्गला भास्वरं रूपं परित्यज्य तामसं रूपांतरं प्राप्नुवंति, तथा च विध्याते प्रदीपेऽनंतरमेव कियत्कालं तामसपुद्गलरूपो विकारः समुपलभ्यते, चिरकालं चासौ यन्नोपलभ्यते, तत् सूक्ष्म सूक्ष्मतर परिणामसद्भावादंजनरजोवत्, अंजनस्य हि पवनेनापहियमाणस्य यत्कृष्णं रज उड्डीयते तदपि परिणामसौक्ष्म्यानोपलभ्यते, न पुनरसत्त्वादिति । ततो यथानंतरोक्तस्वरूप परिणामांतरं प्राप्तः प्रदीपो निर्वाण इत्युच्यते, तथा जीवोऽपि कर्मविरहितः केवलामूर्त्तजीवस्वरूप लक्षणं परिणामान्तरं प्राप्तो निर्वाण For Private & Personal Use Only प्रथमः प्रका सम्यक्त्व खरूपं ॥१२१॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy