SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि विरचिते आत्म प्रबोधग्रन्थे ॥ १२१ ॥ Jain Education Inter भोक्ता सिद्ध:-' सव्वं च परसतया, भुंजड़ कम्ममणुभावओ भइयं तथा-'नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । इत्यादिवचनात् । इत्थं च सिद्ध एष जीवः स्वकृतकर्मणां भोक्तेति ! अनेन हि अभोक्तृजीववादिनां दुर्मतं निराकृतं ४ । तथा पुनरस्य जीवस्यास्ति विद्यते निर्वाणं मोक्षः, अयमर्थः- विद्यमानस्यैव जीवस्य रागद्वेषमदमोह जन्मजरामरण रोगादिदुः खक्षयरूपोऽवस्थाविशेषो मोक्ष इत्युच्यते, सोऽस्य जीवस्यास्ति, न पुनरेतस्य सर्वथा नाश इति । एतेन प्रदीपनिर्वाणतुल्यमभावरूपं निर्वाणमस्तीत्याद्यसद्भूतं प्ररूपर्यंत ः सौगतविशेषा अपास्ताः, ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः तथा च तद्वचः- दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नांतरिक्षं । दिशं न कांचिद्विदिशं न कांचित्, स्नेहक्षयात्केवलमेति शांतिं ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिंगच्छति नांतरिक्षं । दिशं न कांचिद्विदिशं न कांचित्, क्लेशक्षयात्केवलमेति शांति ॥ २ ॥ इति । एतच्चायुक्तं दीक्षाग्रहणादिप्रयासवैयर्थ्यात्, प्रदीपदृष्टांतस्याप्यसिद्धत्वात् तथाहि न प्रदीपवहेः सर्वथा विनाशः, किं तु तथाविधपुद्गलपिरणामवैचित्र्यात्ते एव वह्निपुद्गला भास्वरं रूपं परित्यज्य तामसं रूपांतरं प्राप्नुवंति, तथा च विध्याते प्रदीपेऽनंतरमेव कियत्कालं तामसपुद्गलरूपो विकारः समुपलभ्यते, चिरकालं चासौ यन्नोपलभ्यते, तत् सूक्ष्म सूक्ष्मतर परिणामसद्भावादंजनरजोवत्, अंजनस्य हि पवनेनापहियमाणस्य यत्कृष्णं रज उड्डीयते तदपि परिणामसौक्ष्म्यानोपलभ्यते, न पुनरसत्त्वादिति । ततो यथानंतरोक्तस्वरूप परिणामांतरं प्राप्तः प्रदीपो निर्वाण इत्युच्यते, तथा जीवोऽपि कर्मविरहितः केवलामूर्त्तजीवस्वरूप लक्षणं परिणामान्तरं प्राप्तो निर्वाण For Private & Personal Use Only प्रथमः प्रका सम्यक्त्व खरूपं ॥१२१॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy