SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ जिनलाभसरि विरचिते आत्म जयोधग्रन्ये : ॥११९॥ Jain Education Inter मासादयेदिति तस्य भाजनसाभ्यं प्रोक्तं ५ । तथा सम्यक्त्वं धर्मस्य निधिरिव निधिः, यथा हि प्रधाननिधिं बिना महार्हमणिमौक्तिक कनकादि द्रव्यं न प्राप्यते, तथा सम्यक्त्वमहानिधानस्याप्राप्तौ सत्यां निरुपमसुखश्रेणिसंपादकं चारित्रधर्मवित्तमपि न लभ्यते । इति तस्य निधिसादृश्यमुदितं ६ । इत्येताभिः षड्भिर्भावनाभिर्भाव्यमानमिदं सम्यक्त्वं सद्यः प्रवरतरमोक्षसुखसाधकं भवतीति । अथ षद् स्थानानि व्याख्यायन्ते - अस्ति जीव इत्यादि, अस्ति विद्यते जीवः प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धचैतन्यस्यान्यथानुपपत्तेः, तथाहि चैतन्यमिदं न भूतानां धर्मः, तद्ध|र्मत्वे सति तस्य चैतन्यस्य सर्वत्र सर्वदा चोपलब्धिप्रसंगात् पृथिव्याः काठिन्यवत् । न च चैतन्यं सर्वभूतेषु सर्वदा | चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलंभात् । नापि चैतन्यमिदं भूतानां कार्य, अत्यंतविलक्षणत्वादेव कार्यकास्यानुपपत्तेः । तथाहि - प्रत्यक्षत एवं काठिन्यादिस्वभावानि भूतानि प्रतीयते चैतन्यं च तद्विलक्षणं, ततः कथम| नयोः कार्यकार भावः ? इति तस्मान्न भूनधर्मो न च भूतकार्य चैतन्यं । अस्ति चेदं प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं | अतो यस्येदं चैतन्यं स जीव इति, अनेन च नास्तिकमतमपहस्तितं १ । तथा स च जीवो नित्य उत्पत्तिविनाशरहितस्तदुत्पादककारणाभावात् ततः सर्वथा विनाशाऽयोगाच्च, अनित्यत्वे हि जीवस्य बंधमोक्षादीनामेकाधिकरणत्वं न स्यात् । तथाहि पद्यात्मा नित्यो नाभ्युपगम्यते, किं तुपूर्वापरक्षणत्रुटितानुसंधानलक्षण एव, तथा सति अन्यस्य बंधोऽन्यस्य मोक्षः, अन्यस्य क्षुधा अन्यस्य तृप्तिः, अन्योऽनुभविना अन्यः स्मर्त्ता, अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधिरहितो भवति, अन्यस्तपः क्लेशं सहते अपरः स्वर्गसुखमनुभवति अपरः शास्त्राभ्यासं करोति For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥ ११९॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy