SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ जिनलाभ बरि विरचिते आत्मप्रबोधग्रन्थे १२८ Jain Education Inter व्याख्या - महासत्त्वाः पुमांसो राजादिभिः शुद्धधर्मात्सु भिद्यमानाश्चलत्वं प्राप्यमाणा अपि संतो न चलंति, परमितरेषामल्पसत्त्वानां कदाचिच्चलनभावे सति एतैराकारैः प्रतिज्ञाभंगो न भवति । एतदर्थमेते आकारा आगमे संगृहीता इति गाथाक्षरार्थः । अथ षड् भावना व्याख्यायंते- इदमित्यादि, इदं सम्यक्त्वं पंचाणुव्रतत्रिगुणव्रतचतुः शिक्षात्रतरूपस्य पंचमहाव्रतरूपस्य च चारित्रधर्मस्य मूलमिव मूलं कारणमित्यर्थः, कीर्त्तितं कथितं तीर्थकरादिभिरिति सर्वत्र संबंधः, यथा हि मूलरहितो वृक्षः प्रचंडवातप्रकंपितः सन् क्षणादेव निपतति, एवं धर्मतस्रपि सुसम्यक्त्वमूलविहीनः कुतीर्थिक मतमारुतांदोलितः सन् स्थिरत्वं नासादयेदिति तस्य मूलसादृश्यमुक्तं १ । तथेदं सम्यक्त्वं धर्मस्य द्वारमिव द्वारं प्रवेशमुखमित्यर्थः, यथा हि अकृतद्वारं नगरं समंतात्प्राकारवलय वेष्टितमपि अनगरमेव भवति जनप्रवेश निर्गमाभावात्, एवं धर्ममहानगरमपि सम्यक्त्वद्वारशून्य सत् अशक्यप्रवेशं स्यादिति तस्य द्वारतुल्यत्वमुक्तं २ | तथा प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं, सम्यक्त्वं किल धर्मस्य प्रतिष्ठानमिव प्रतिष्ठानं, यथा हि पयःपर्यंत पृथ्वीतलगतगर्त्तापूरकपीठरहितः प्रासादः सुदृढो न भवति, तथा धर्मदेवगृहमपि सम्पक्त्वरूपप्रतिष्ठानवर्जितं निश्चल न भवेदिति तस्य प्रतिष्ठानसाम्यमुदितं ३ | तथा सम्यक्त्वं धर्मस्थाधार इवाधार आश्रय इति यावत् । यथा भूतलमंतरेण निरालंबमिदं जगन्न तिष्ठति एवं धर्मजगदपि सम्यक्त्वलक्षणाधारं विना नावतिष्ठते इति तस्याधारसादृश्यं गदितं ४ । तथा सम्यक्त्वं धर्मस्य भाजनमिव भाजनं पात्रमित्यर्थः । यथा हि कुंडादिभाजनविशेषवर्जितं क्षीरादिवस्तु वृंदं विनश्यति, एवं धर्मवस्तुनिवहो ऽपि सम्यक्त्व भाजनमंतरेण विनाश 1 For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरू ॥११८॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy