________________
जिनलाभ
बरि
विरचिते आत्मप्रबोधग्रन्थे
१२८
Jain Education Inter
व्याख्या - महासत्त्वाः पुमांसो राजादिभिः शुद्धधर्मात्सु भिद्यमानाश्चलत्वं प्राप्यमाणा अपि संतो न चलंति, परमितरेषामल्पसत्त्वानां कदाचिच्चलनभावे सति एतैराकारैः प्रतिज्ञाभंगो न भवति । एतदर्थमेते आकारा आगमे संगृहीता इति गाथाक्षरार्थः । अथ षड् भावना व्याख्यायंते- इदमित्यादि, इदं सम्यक्त्वं पंचाणुव्रतत्रिगुणव्रतचतुः शिक्षात्रतरूपस्य पंचमहाव्रतरूपस्य च चारित्रधर्मस्य मूलमिव मूलं कारणमित्यर्थः, कीर्त्तितं कथितं तीर्थकरादिभिरिति सर्वत्र संबंधः, यथा हि मूलरहितो वृक्षः प्रचंडवातप्रकंपितः सन् क्षणादेव निपतति, एवं धर्मतस्रपि सुसम्यक्त्वमूलविहीनः कुतीर्थिक मतमारुतांदोलितः सन् स्थिरत्वं नासादयेदिति तस्य मूलसादृश्यमुक्तं १ । तथेदं सम्यक्त्वं धर्मस्य द्वारमिव द्वारं प्रवेशमुखमित्यर्थः, यथा हि अकृतद्वारं नगरं समंतात्प्राकारवलय वेष्टितमपि अनगरमेव भवति जनप्रवेश निर्गमाभावात्, एवं धर्ममहानगरमपि सम्यक्त्वद्वारशून्य सत् अशक्यप्रवेशं स्यादिति तस्य द्वारतुल्यत्वमुक्तं २ | तथा प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं, सम्यक्त्वं किल धर्मस्य प्रतिष्ठानमिव प्रतिष्ठानं, यथा हि पयःपर्यंत पृथ्वीतलगतगर्त्तापूरकपीठरहितः प्रासादः सुदृढो न भवति, तथा धर्मदेवगृहमपि सम्पक्त्वरूपप्रतिष्ठानवर्जितं निश्चल न भवेदिति तस्य प्रतिष्ठानसाम्यमुदितं ३ | तथा सम्यक्त्वं धर्मस्थाधार इवाधार आश्रय इति यावत् । यथा भूतलमंतरेण निरालंबमिदं जगन्न तिष्ठति एवं धर्मजगदपि सम्यक्त्वलक्षणाधारं विना नावतिष्ठते इति तस्याधारसादृश्यं गदितं ४ । तथा सम्यक्त्वं धर्मस्य भाजनमिव भाजनं पात्रमित्यर्थः । यथा हि कुंडादिभाजनविशेषवर्जितं क्षीरादिवस्तु वृंदं विनश्यति, एवं धर्मवस्तुनिवहो ऽपि सम्यक्त्व भाजनमंतरेण विनाश
1
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरू
॥११८॥
www.jainelibrary.org