SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जिनलाभबरि चिरचिते आत्मप्रबोधग्रन्थे ॥११७॥ Jain Education Inte इति राजाभियोगे कोशा दृष्टांतः ॥ १ ॥ तथा गणः स्वजनादिसमुदायस्तस्याभियोगो गणाभियोगः, एतावता सम्यक्त्वनो यत् कर्त्तुमयोग्यं तत्स्वगणस्याग्रहवशाद् द्रव्यतः कुर्वन्नपि सुदृष्टिर्विष्णुकुमारादिरिव सम्यक्त्वा - दिधर्म नातिक्रामति । यथा विष्णुकुमारेण गच्छस्यादेशाद्वैक्रियरूपरचनादिप्रकारेणात्यंतजिनमतद्वेषी नमुचिर्नाम पुरोहितः स्वकीयचरणप्रहारेण हत्वा सप्तमनरकातिथिर्विहितः स्वयं च मुनिना तत्पापमालोच्य स्वकीयं सम्यक्त्वादिधर्मं सम्यगाराध्य च परमसुखिना संजातमिति । एवमग्रेऽपि भावनापूर्वकमुदाहरणान्युपयुज्य वाच्यानि २ । तथा बलं नाम बलवतः पुरुषस्य हठप्रयोगस्तेनाभियोगो बलाभियोगः ३ । तथा सुरस्य कुलदेवतादेरभियोगः सुराभियोगः ४ । तथा कांतारमरण्यं तत्र वृत्तिर्वर्त्तनं निर्वाहः कांतारवृत्तिः, यहा कांतारमपि पीडाहेतुत्वादिह पीडात्वेन विवक्षितं, ततः कांतारेण पीडया वृत्तिः, प्राणवर्त्तनरूपा कांतारवृत्तिः कष्टन निर्वाह इति यावत् ५ । तथा गुरवो मातापितृप्रभृतयः, यदुक्तं- माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥ तेषां निग्रहो निर्बंधो गुरुनिग्रहः ६ । एते षट् श्रीजिनशासने आकारा अपवादाछिडिका इति यावत् । इदमत्र तात्पर्य - प्रतिपन्नसम्यक्त्वस्य जतोर्यत्परतीर्थिक वंदनादिकं प्रतिषिद्धं तद्राजाभियोगादिभिरेतैः षइभिः कारणै भक्तिवियुक्तो द्रव्यतः समाचरन्नपि सम्यग्दृष्टिः सम्यक्त्वं नातिचरतीति । किं चैते हि अल्पसत्त्वान् जंतूनाश्रित्यापवादाः प्रोक्ताः संति, न तु महासत्वान् यदुक्तं न चलति महासत्ता, सुभिजमाणाओ सुद्धधम्माओ । इयरेमिं चलणभावे, पद्मभंगो न एएहिं ॥ ३१ ॥ For Private & Personal Use Only प्रथमः प्रकावे सम्बवस्व स्वरूप ॥११७॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy