SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ जिनलाभबरि चिरचिते आत्मप्रबोधग्रन्थे ॥११७॥ Jain Education Inte इति राजाभियोगे कोशा दृष्टांतः ॥ १ ॥ तथा गणः स्वजनादिसमुदायस्तस्याभियोगो गणाभियोगः, एतावता सम्यक्त्वनो यत् कर्त्तुमयोग्यं तत्स्वगणस्याग्रहवशाद् द्रव्यतः कुर्वन्नपि सुदृष्टिर्विष्णुकुमारादिरिव सम्यक्त्वा - दिधर्म नातिक्रामति । यथा विष्णुकुमारेण गच्छस्यादेशाद्वैक्रियरूपरचनादिप्रकारेणात्यंतजिनमतद्वेषी नमुचिर्नाम पुरोहितः स्वकीयचरणप्रहारेण हत्वा सप्तमनरकातिथिर्विहितः स्वयं च मुनिना तत्पापमालोच्य स्वकीयं सम्यक्त्वादिधर्मं सम्यगाराध्य च परमसुखिना संजातमिति । एवमग्रेऽपि भावनापूर्वकमुदाहरणान्युपयुज्य वाच्यानि २ । तथा बलं नाम बलवतः पुरुषस्य हठप्रयोगस्तेनाभियोगो बलाभियोगः ३ । तथा सुरस्य कुलदेवतादेरभियोगः सुराभियोगः ४ । तथा कांतारमरण्यं तत्र वृत्तिर्वर्त्तनं निर्वाहः कांतारवृत्तिः, यहा कांतारमपि पीडाहेतुत्वादिह पीडात्वेन विवक्षितं, ततः कांतारेण पीडया वृत्तिः, प्राणवर्त्तनरूपा कांतारवृत्तिः कष्टन निर्वाह इति यावत् ५ । तथा गुरवो मातापितृप्रभृतयः, यदुक्तं- माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥ तेषां निग्रहो निर्बंधो गुरुनिग्रहः ६ । एते षट् श्रीजिनशासने आकारा अपवादाछिडिका इति यावत् । इदमत्र तात्पर्य - प्रतिपन्नसम्यक्त्वस्य जतोर्यत्परतीर्थिक वंदनादिकं प्रतिषिद्धं तद्राजाभियोगादिभिरेतैः षइभिः कारणै भक्तिवियुक्तो द्रव्यतः समाचरन्नपि सम्यग्दृष्टिः सम्यक्त्वं नातिचरतीति । किं चैते हि अल्पसत्त्वान् जंतूनाश्रित्यापवादाः प्रोक्ताः संति, न तु महासत्वान् यदुक्तं न चलति महासत्ता, सुभिजमाणाओ सुद्धधम्माओ । इयरेमिं चलणभावे, पद्मभंगो न एएहिं ॥ ३१ ॥ For Private & Personal Use Only प्रथमः प्रकावे सम्बवस्व स्वरूप ॥११७॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy