SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सम्बवत बारम धनपालः पृष्टः- त्वया देवपूजा कृता ।' तेनोक्तं-'महाराज! सम्यक्तया कृता ।' भूपेनोक्तं-'भवान्या : पूजाबिनलाम- मकृत्वैव चकितः सन् कथंतगृहावहिर्निर्गतः ?।' तेनोचे-'रुधिरलिप्तायुधहस्तां ललाटतटे कृतभृकृटिं महिष-15 सरि मईनक्रियां कुर्वती भवानी दष्ट्वा भीतः सन्नहं सद्यो बहिनिर्गतः, सांप्रतं युद्धसमयोऽस्ति न तु पूजासमय इति विरचिते विभाव्य तत्पूजापि न कृता।' पुनर्भूपेनोक्तं-'रुद्रपूजा कथं न कृता?।' तेनोचे-'अकण्ठस्य कण्ठे कथं पुष्पमाला, खर सोधान्ये विना नासिकायाः कथं गंधधूपः, अकर्णस्य कर्णे कथं गीतनादा?, अपादस्य पादे कथं मे प्रणामः? ॥१॥' ॥११॥ RRपुनर्भपतिरुवाच-विष्णोः पूजामकृत्वा तत्संमुखं वस्त्रंनिधाय कथं त्वं झटिति बहिर्निर्गतः।' धनपाल उवाच-15 'स्वस्त्रियमुत्संगे निधाय स स्थितोऽभूत्, तदा मया चिंतितं, सांप्रतमेते अंतःपुरे स्थितः संति, अतो नायं पूजासमयः, यः कश्चित्सामान्योऽपि पुमान् यदा स्वस्त्रियाः समीपे तिष्ठति तदा सत्पुरुषस्तत्समीपे न प्रयाति, एते तुर त्रिखंडस्वामिनोऽनोऽधुना एषां पार्श्व मद्गमनमयुक्तं, इति विचार्य दूरत एव पश्चाद्वलित्वा चतुःपथे गच्छतामपि । जनानां दृष्टिपातवारणाय तत्संमुख मया वस्त्रं निहितं ।' पुनर्नुपेणोक्तं-'मदाज्ञां विनैव त्वया ऋषभदेवपूजा कथं कृता?।' तेनोचे-'राजन् ! भवता देवपूजाकरणाज्ञा दत्ताभूत्, देवत्वं तु मया ऋषभदेवस्वामिन्येव दृष्टमतस्त-] स्यैव पूजा कृता, तस्य देवत्वस्वरूपवर्णन चेदं-प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमंकः कामिनीसं| गशून्यः। करयुगमपि यत्ते शस्त्रसंबंधवंध्यं तदसि जगति देवो वीतरागस्तमेव ॥१॥'पुनर्धनपालेनोक्तं-'हे 2 राजन्! यो रागद्वेषयुक्तः सोऽदेवस्तत्र देवत्वाभावात् संसारतारकत्वमपि नास्ति, देवस्तु संसारतारक एव भवेत् HARE -625 Jain Education Interest For Private & Personal use only W WW.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy