________________
प्रथम
तपे मोचितवान् । ततो दधिभांडस्य छिद्रेण निःसृत्यालक्तके स्थिताः शुभ्रा जंतवः, तान् स्वयं दृष्ट्वा धनपालाय IP दर्शिताः । धनपालोऽपि तांश्रलतो जंतून् दृष्ट्वा मनसि विस्मितः सन् धन्यो जगति जैनधर्म इति पुनः पुनरब्रवीत्।। सरि विरचिते ४ तस्मिन्नेवावसरेऽस्य चेतसि तत्वरुचिरूपं सम्यक्त्वं प्रादुर्भूतं । ततोऽसौ गुरूणां पार्वे सम्यक्त्वमूलानि द्वादश ।
सम्यक्त्व मात्म
तानि प्रपन्नवान्, तदासौ देवमहतं गुरुं सुसाई धर्म च जिनेंद्रभाषितमेव प्रमाणयन् हृदि केवलं पंचपरमेष्ठिध्यानं प्रबोधग्रन्थे
कुर्वन् परमश्रावको वभूम । अन्य धर्म चेतस्यपि न दधार । अथ शोभनाचार्य इत्थं भ्रातरं प्रतिबोध्य गुरुसमीपं ॥११॥ ॥११॥ |गतः। धनपालस्तु षड्भिर्यतनाभिर्यतमानः सुखेन सम्यक्त्वादिधर्ममाराधयन् कालं गमयति स्म । तस्मिन्नवसरे
केनचिद् दुष्टविप्रेण भोजनृपायोक्तं-'हे महाराजा! धनपालो भवत्पुरोहितो जिनं विनान्यं कमपि न नमति ।' नृपेणोचे-'एवं तर्हि तत्परीक्षां करिष्ये ।' अथैकदा भोजराजो महाकालदेवगृहे गत्वा सपरिकरो रुद्रं नमश्चकार परं। धनपालो न रुद्रं नमति स्म । किंतु स्वकरमुद्रिकायां स्थितं जिनविबमेव नमस्कृतवान् । ततो भोजस्तत्स्वरूपं विज्ञाय स्वस्थानमागत्य धूपपुष्पादिपूजासामग्रीमानाय्य धनपालं प्रतीत्यादिदेश-'भो धनपाल ! देवपूजां कृत्वा श्री शीघ्रमागच्छ । ' ततो धनपालो नृपाज्ञया सद्य उत्थाय पूजासामग्री च गृहीत्वा प्रथम भवान्या मंदिरं प्रति ततश्चकितः सन् बहिनिःसृत्य रुद्रमंदिरं गतस्तत्रापीतस्ततो विलोक्य सद्यो निःसृत्य विष्णुमंदिरं प्रविष्टः, तत्र च स्वोत्तरीयवस्त्रं परिच्छद्रूपेण निधाय बहिर्निर्गत्य च श्रीऋषभदेवजिनालये गत्वा प्रशांतचित्तः सन् पूजां विधाय राजद्वारं समेतः । राज्ञा तत्पृष्टत एव हेरका मुक्ता आसन् , तन्मुखात्मागेव सर्वोऽपि वृत्तांतस्तेन ज्ञातः। ततो
Jain Education Inter
For Private & Personal use only
T
ww.jainelibrary.org