________________
परि
| स्थितः। गुरवस्त्वन्यत्र विजह्वः। अथ स विप्रो गुरूपकारं स्मरन्नपि तान् प्रत्युपक मशक्नुवन् शल्यपीडित इव विनलाम- कालं गमयन कियता कालेन रोगपीडितःसंजातः। तदा पुत्राभ्यामंत्यावस्थोचितां धर्मक्रियां विधाय पितरं मानविरचिते | सदुःखेन दुःखितं विज्ञाय पृष्टं-'भोः तात! भवचित्ते यद्भवेत्तनिवेदय।' तदा पित्रा सर्वमपि वृत्तांत निवेद्य प्रोक्तं-5
सम्बत मात्म
भः पुत्रौ! भवतोयोर्मध्ये एकश्चारित्रं गृहीत्वा मामनृणं कुरुतां ।' एतद्वचः श्रुत्वा धनपालस्तु भीतः सन् अधो-18 प्रपोषान्थे
I मुखीभूय स्थितः, तदा शोभनेनोचे-'भोः ताताहं दीक्षा ग्रहीष्यामि, त्वमनृणी भव चेतसि च परमानंद धारय। ॥१०॥ एतत्सुतवचो निशम्य सर्वधरविप्रो देवलोकं गतः । ततो मृतक्रियां कृत्वा शोभनेन श्रीवर्धमानसूरिशिष्यश्रीजि-51
नेश्वरसूरिगुरूणां पावें दीक्षा गृहीता । अथ धनपालो रुष्टः सन् तहिनादेव जैनधर्मद्वेषी बभूव । अवंत्यां साधूनामागमनमपि निषिद्धवान् । ततस्तत्रत्यश्रीसंघेन गुरूणां पार्श्वे लेख संप्रेष्येदं निवेदितं-'स्वामिन् ! यदि शोभनाय दीक्षां नादास्यस्तर्हि गच्छः शून्यस्तु नाभविष्यत् गच्छस्य रत्नाकरोपमत्वात् । शोभनदीक्षणे हि तशाता धनपा लपुरोहितो मिथ्यामतितया रुष्टः सन् भूयसी धर्महानि करोति ।' अथैतवृत्तांत विज्ञायाचार्याः शोभनं गीतार्थ ज्ञात्वा शुभे दिने वाचनाचार्य विधाय मुनियुगलेन सहोपद्रवशांत्यर्थ उज्जयिनी प्रति प्रेषयामासुः। शोभनाचार्योऽपि गुर्वाज्ञया ततो विहृत्य क्रमेण उज्जयिन्यां समेतः, तत्र पुरप्रतोली पिहितां दृष्ट्वा रात्रौ बहिरेव स्थितः, प्रातः प्रति-12 क्रमणं विधाय यावत्पुरमध्ये प्रविष्टस्तावद्धनपालः संमुखंमिलितः, तेन च जैनधर्मद्वेषिणा शोभनमनुपलक्ष्येत्थमुप हासवचः प्रोक्तं-'गर्दभदंत भदंत! नमस्ते।' एवं श्रुत्वा शोभनेन मातरमुपलक्ष्यापि तदुक्तियोग्यमेव प्रतिवचः
SSSSSSSSE
Jain Education interne
For Private & Personal Use Only
Flowjainelibrary.org