SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ जिनलाभवरि विरचिते मात्म प्रयोधग्रन्ये ॥१०८॥ Jain Education Intern सिद्धं ॥ १ ॥ ति । ५ । तथा तेषामेव परतीर्थिकदेवानां तत्परिगृहीतजिन विधानां च पूजादिनिमित्तं गंधपुष्पादिकं सम्यग्दर्शिभिर्न प्रषेणीयं, आदिशब्दाद्विनयवैयावृत्त्ययात्रास्नात्रादिकं च तेषां न कर्त्तव्यमिति । एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात् ६ । एताभिः परतीर्थिकादिवंदन वर्जनप्रभृतिभिः षड्भिर्यतनाभिर्यतमानो भव्यात्मा भोजनृपपुरोहितधनपाल इव सम्यक्त्वं नातिक्रामति । इह धनपालवृत्तांतस्त्वित्थं - अवंतीनगर्यां सर्वधरो नम राज्ञः पुरोहितो वसति स्म । तस्य धनपालशोभनाख्यौ द्वौ पुत्रौ । तौ च पांडित्यादिगुणयुक्तत्वेन राज्ञो बहुमाननीयावभूतां । अथैकदा तनगर्यां सिद्धसेनाचार्यसंतानीयाः श्री सुस्थिताचार्याः पुस्तकांतरे श्रीउद्योतनसूरिशिष्याः श्रीवर्द्धमानसूरयो बहुभव्यजनप्रबोधार्थ समागताः, तदा सर्वधरस्यापि तत्र गमनागमनतो गुरुभिः सह प्रीतिर्जाता। एकदा तेन गुरवः पृष्टाः 'स्वामिन्! गृहांगण भूमौ कोटीद्रव्यं निहितमासीत् तद् बहुधा गवे षितमपि न प्राप्तं, अथ कथं तत्प्राप्तिः स्यात् ? ।' तदा गुरुभिः किंचिद्विहस्य प्रोक्तं- ' यदि लभ्यते तदा किमु ? | ततः सर्वधरेणोक्तं- ' स्वामिन्नर्द्ध विभज्य दीयते । ' तदा गुरुभिस्तद्गृहं गत्वा केनचित्प्रयोगेण तत्कालं सर्वमपि द्रव्यं प्रादुष्कृत्य दर्शितं, ततः सर्वधरेण तस्य पुंजद्वयं विधाय गुरवो विज्ञाप्ताः - 'स्वामिन्नद्धं द्रव्यं गृह्यतां ।' गुरुभिरुक्तं- ' द्रव्येणास्माकं किमपि प्रयोजनं नास्ति, ईदृशं तु सदपि द्रव्यमस्माभिः परित्यक्तं ।' विप्रेणोक्तं- ' तर्हि कथमर्थं याचितं ? ।' गुरुभिरूचे - ' गृहसारस्यार्द्ध दीयतां ।' तेनोक्तं- ' मद्गृहेऽपरं किं सारमस्ति ?' गुरुभिरूचे - 'भवतः सारभूतं पुत्रद्वयं विद्यते, तन्मध्यादेकः पुत्रो दीयतां १ ।' एतत् श्रुत्वा विप्रो विषादपरः सन् मौनमाधाय 6 For Private & Personal Use Only |॥१०८॥ ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy