________________
बिनलाभ
बरि
विरचिते
आत्मप्रयोपान्थे ॥१०६॥
प्रोक्तः। विजयेनापि मरणभयारीतेन स्वजीवितव्यस्य कृते सर्वमपि तत्प्रतिपन्न। ततः पद्मशेखरभूपतिः सर्वानपि । स्वपौरजनानाकार्येवमादिदेश- भो लोका! अद्य पुरमध्ये स्थाने स्थाने वीणावेणुमृदंगादिविविधवादित्राणि वाद-151
प्रकारे यत, तथाऽतिमनोहारिरूपधारिणं [सर्वेद्रियसर्वस्वापहारिण] पणांगनागणं प्रतिगृहं नर्तयतेति ।' लोकैरपि भूप-14 वाक्यात्तथैव कृतं। अथ विजयः शब्दरूपादिविषयाणामतिरसिकोऽपि मरणभयाज्जितेंद्रियविकारो निरुद्धमानसश्च स्वरूप सन् तत्तैलपूर्ण पात्रं सकलेऽपि पुरे भ्रामयित्वा पश्चाद्भप सभायामागत्य तत्पात्रं यत्नेन नृपपुरतो मुक्त्वा तृपं । प्रति प्रणामं कृतवान् । ततो भूपः किंचिद्विहस्य विजयं प्रति वभाषे-'भो विजय ! एतेषु गीतनृत्यादिषु अत्यंत प्रवर्त्तमानेषु सत्सु तडित्तरलानि मनइंद्रियाणि त्वया कथं रुद्धानि ?' स नत्वा प्राह-'स्वामिन् ! मरणभयात्, यदुक्तं-' मरणसमं नत्थि भयं ति। ततो राजा प्राह-'भो विजय! विषयतृषितेन त्वया योकभवस्य मरणभयेनेत्थं प्रमादो हतस्तनंतभवभ्रमणभीरवो ज्ञाततत्त्वा मुनीश्वरा अनंतानर्थजनकं प्रमादं कथं सेवंते ?।' एतद्भपवचनं श्रुत्वाऽपगतमोहोदयः स विजयोऽपि विज्ञातजिनधर्मपरमार्थः सन् श्रावकधर्म प्रतिपन्नवान् । ततो राजात्मसा धर्मिकत्वेन तस्य बहुमानं कृत्वा महताडंवरेण तं गृहं नीतवान् । तदानंदितः सर्वोऽपि लोकः प्रतिपदं राज्ञो गुणान् गीतवान् । एवं पद्मशेखरो राजा बहुन् भव्यान् जिनधर्म स्थापयित्वा प्रतिदिनं सद्धर्ममहिमानं विस्तार्य चिरं राज्यं प्रपाल्याराधितपरामास्तिक्यःसुरराजभवनं संप्राप्तः । इत्यास्तिक्ये पद्मशेखरदृष्टांतः। एतचरित्रं भव्यास्मभिः सम्यक खहृदये परिभाब्यास्तिक्ये विशेषतो यत्नः कर्तव्यो यथा मुखेन निःश्रेयसाधिगमः संपद्यते। इत्या
HOCHSCHULEUSE
anderantematon
For Private & Personal Use Only
www.jainelibrary.org