________________
प्रवमा
जिनलाभ- विरचिते मात्मपोषान्थे ॥१०५॥
खसर्व
॥१०॥
WALAGAKARSANESH
एकदावसरं विज्ञाय तदाभरणं विजयस्य रत्नकरंडके क्षिप्त्वा राजनं पति सर्वोऽपि वृत्तांतो निवेदितः। तदनतरं च राज्ञा पुरमध्ये इत्थं वारत्रयमुदूधोषणा कारिता-'श्रूयतां भो लोकाः! अबैकं महामूल्यं राज्ञो रत्नाभरणं | न लभ्यते, तत्केनापि चेद्गृहीतं भवेत्तर्हि शीघ्रं समर्पणीयं, नो चेत्पश्चादपि ज्ञाते सति तद्ग्राहकोपरि महादंडः पतिष्यतीति ।” एवमुद्घोषणां कारयित्वा सर्वपौरजनानां गृहशोधनार्थ स्वसेवकाः समादिष्टाः। ततो गृहशो. धनं कुर्वद्भिस्तैर्विजयस्य गृहे रत्नकरंडकमध्यस्थितं राज्ञो रत्नाभरणं विलोक्य पृष्ट-भोः किमेतदिति ?।' स प्राह | 'अहं न जानामि ।' पुनस्तरुक्तं- 'भोः स्वैवमेवैभूषणं चोरयित्वा न जानामीति कथं भणसि ?।' तदा विजयो | भथात् किमपि वक्तुमशक्नुवन् मौनमाधाय स्थितः, ततस्तैरपि स बंधनैर्गाढं बध्ध्वानृपसमीपमानीतः। नृपेण |च-' भवद्भिरस्य वधो न कर्त्तव्य' इति प्रच्छन्नमादिश्य सभासमक्षं 'चौरोऽयमतो हंतव्य' इत्युक्त्वा वधकेभ्यः
समर्पित, तदा तत्स्वजनसंबंधिप्रभृतयः सर्वेऽपि जनाः पश्यंति, परंप्रत्यक्षमेव चौरं ज्ञात्वा कोऽपि तं न मोचयति। | ततो जीवितव्यनिराशो विजयो दीनवचनैर्यक्ष प्रति भणति स्म-'भो मित्र ! त्वं कथमपि राजानं प्रसन्नीकृत्य केनचित्प्रचंडे नापि दंडेन मा जीवितव्यं दापय ।' तदा यक्षोऽपि तद्बचोऽवधार्य राजानं विज्ञपयति स्म-'स्वामिन् ! यथायोग्यं दंडं कृत्वा एनं मम मित्रं मुंच, सकलकल्याणाश्रयं जीवितव्यं च देहि ।' ततश्च राजा कुपित इव क्रूरदृष्टिं कृत्वा प्राह-' यद्ययं मद्गृहातैलेन पूरितं पात्रं गृहीत्वा बिंदुमात्रमपि भूमावपातयन् सकलेपि नगरे भ्रांत्वा तत्पात्रं मत्पुरो मुंचति तयेनं जीवंतं रक्षामि, नान्यथेति । 'अयं च नृपादेशो यक्षेण विजयाग्रे|
Jain Education intemel
For Private & Personal Use Only
HARMww.jainelibrary.org