SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जिनलाभसरि विरचिते मात्म प्रबोधग्रन्थे ॥१०४॥ Jain Education Inter वृषभमिव दमयित्वा सन्मार्गमानयति । पुनर्भूपः सभायां बहुभिः प्रकारैः सकलजनानां पुरो भक्तिरागेण गुरुणां गुणान् वर्णयति । तथाहि " श्रूयतां भो लोकाः । अस्मिन् लोके ममत्वरहिता जीवदयाप्ररूपका दुष्टवादिगणस्य जेतारो गतकषाया निरुपमोपशमरस भरपूरितहृदया रागद्वेषविमुक्ता भवविरक्ता नाशितमदनविकाराः सिद्धिर| मण्यां विहितपरिचाराः परित्यक्तसकलद्रव्याः सुगृहीत चारित्रवररत्नाः सर्वेष्वपि सत्त्वेषु करुणाकरणोद्यता दुर्द्धरप्रमादसिंधुरविघातसिंहोपमा एवंविधाः श्रीगुरवः संति । ये प्राणिनो हि मनुष्यत्वादिसकलधर्मसामग्रीमवाप्यैताहरगुणयुक्तान् गुरून् सेवते ते धन्याः, ये पुनस्तेषां वचनामृतं पिवति ते धन्यतरा इत्यादि । " तथेहग्वचनरसेन स भूपतिर्बहून् भव्लोकान् प्रक्षालितपापकर्ममलान् विधाय जिनधर्मे स्थापयति । परं तत्रैवैको विजयो नाम श्रेष्टिसुतस्तस्मिन् भूपवचने प्रतीतिमकुर्वाणो मणति स्म -' भो नरनाथ ! यस्वं मुनीन् वर्णयसि तत्सर्वमपि पलालतुल्यं विद्यते, यतस्ते पवनप्रचलध्ध्वजपटवञ्चंचलं चित्तं निजनिजविषयप्रसक्तानींद्रियाणि च कथं रोढुं शक्नुवंति ? देवादीनामपि तद्रोधनेऽशक्तात्वादिति । ” एतत् श्रुत्वा राज्ञा चिंतितं- अयं दुष्टबुद्धिर्वाचाल इत्थमसमंजसं जल्पन् अन्यान्मुग्धजनान् सुमार्गात् पातयिष्यति, अतोऽसौ केनाप्युपायेन प्रतिबोध्यः । ' इति विचित्य स्वस्य परमसेवकं यक्षनामानं पुरुषं प्रत्येकांते आदिष्टं " भो यक्ष ! त्वया विजयेन सार्धं मैत्रीं कृत्वा तं प्रति स्वकीयमतिविश्वासमुत्पाद्य कथमपि तस्य रत्नकरंडकेममेदं महामूल्यं रत्नाभरणं प्रक्षेपणीयमिति । " तदा यक्षेणापि राज्ञो वचनं तथेति प्रतिपद्य विजयेन सार्द्धं महामैत्री विहिता, तं प्रति सुतरां विश्वासञ्चोत्पादितः । ततः For Private & Personal Use Only प्रथमः प्रकाश सम्यक्त्व स्वरूपं ॥१०४॥ swww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy