________________
जिनलाभसरि विरचिते
मात्म
प्रबोधग्रन्थे
॥१०४॥
Jain Education Inter
वृषभमिव दमयित्वा सन्मार्गमानयति । पुनर्भूपः सभायां बहुभिः प्रकारैः सकलजनानां पुरो भक्तिरागेण गुरुणां गुणान् वर्णयति । तथाहि " श्रूयतां भो लोकाः । अस्मिन् लोके ममत्वरहिता जीवदयाप्ररूपका दुष्टवादिगणस्य जेतारो गतकषाया निरुपमोपशमरस भरपूरितहृदया रागद्वेषविमुक्ता भवविरक्ता नाशितमदनविकाराः सिद्धिर| मण्यां विहितपरिचाराः परित्यक्तसकलद्रव्याः सुगृहीत चारित्रवररत्नाः सर्वेष्वपि सत्त्वेषु करुणाकरणोद्यता दुर्द्धरप्रमादसिंधुरविघातसिंहोपमा एवंविधाः श्रीगुरवः संति । ये प्राणिनो हि मनुष्यत्वादिसकलधर्मसामग्रीमवाप्यैताहरगुणयुक्तान् गुरून् सेवते ते धन्याः, ये पुनस्तेषां वचनामृतं पिवति ते धन्यतरा इत्यादि । " तथेहग्वचनरसेन स भूपतिर्बहून् भव्लोकान् प्रक्षालितपापकर्ममलान् विधाय जिनधर्मे स्थापयति । परं तत्रैवैको विजयो नाम श्रेष्टिसुतस्तस्मिन् भूपवचने प्रतीतिमकुर्वाणो मणति स्म -' भो नरनाथ ! यस्वं मुनीन् वर्णयसि तत्सर्वमपि पलालतुल्यं विद्यते, यतस्ते पवनप्रचलध्ध्वजपटवञ्चंचलं चित्तं निजनिजविषयप्रसक्तानींद्रियाणि च कथं रोढुं शक्नुवंति ? देवादीनामपि तद्रोधनेऽशक्तात्वादिति । ” एतत् श्रुत्वा राज्ञा चिंतितं- अयं दुष्टबुद्धिर्वाचाल इत्थमसमंजसं जल्पन् अन्यान्मुग्धजनान् सुमार्गात् पातयिष्यति, अतोऽसौ केनाप्युपायेन प्रतिबोध्यः । ' इति विचित्य स्वस्य परमसेवकं यक्षनामानं पुरुषं प्रत्येकांते आदिष्टं " भो यक्ष ! त्वया विजयेन सार्धं मैत्रीं कृत्वा तं प्रति स्वकीयमतिविश्वासमुत्पाद्य कथमपि तस्य रत्नकरंडकेममेदं महामूल्यं रत्नाभरणं प्रक्षेपणीयमिति । " तदा यक्षेणापि राज्ञो वचनं तथेति प्रतिपद्य विजयेन सार्द्धं महामैत्री विहिता, तं प्रति सुतरां विश्वासञ्चोत्पादितः । ततः
For Private & Personal Use Only
प्रथमः प्रकाश
सम्यक्त्व
स्वरूपं
॥१०४॥
swww.jainelibrary.org