SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जिनलाभ सरि विरचिते आत्म प्रबोधग्रन्थे ॥१०३॥ Jain Education Inter प्रमुदितः सर्वोऽपि लोकः सत्यमनसा राज्ञो गुणान् वर्णयन् दयामयं श्रीजिनधर्मं चानुमोदयन् स्वस्वस्थानं संप्राप्तः, | राजापि महतोत्सवेन तथैव प्रतोल्या पुरं प्रविश्य निजमंदिरं समाजगाम । इंद्रदत्तोऽपि सहर्ष स्वगृहं गतः सर्वेऽपि जनाः सुखिनो जाताः, तदा बहुभिर्भव्यात्मभिर्दयामयः श्रीजिनधर्मः प्रतिपन्नः । इत्यनुकंपायां सुधर्म भूपदृष्टांतः । एवमन्यैरप्यात्मधर्मोपलक्षिका सर्वसुखश्रेणिप्रतिपादिका निखिलजगज्जंतुष्वनुकंपा रक्षणीया । इत्यनुकंपाख्यं चतुर्थ लक्षणं ॥ ४ ॥ तथा पंचममास्तिक्यलक्षणं, अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यं तत्त्वांतरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकांक्षाप्रतिपत्तिः जिनवचने प्रत्यय इत्यर्थः । आस्तिक्येन हि जीवधर्मत्वेन अप्रत्यक्षमपि सम्यक्त्वं लक्ष्यते, तद्वान् आस्तिक इत्युच्यते । यदागमः-मन्नइ तमेव सच्चं, निस्संकं जं जिणेहि पन्नत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तियारहिओ ॥ १ ॥ भावार्थस्तु पद्मशेखरकथागम्यः । सा चैवं अस्मिन् जंबूद्वीपे भरतक्षेत्रे पृथिवीपुरं नाम नगरं । तत्र पद्मशेखरो नाम राजा रज्यं शास्ति । एकदा तन्नगरासन्नचैत्ये बहुसाधुपरिवृताः श्रीविनयंधरसूरयः समवसृताः । राजा बहुलोकसमन्वितस्तद्वंदनार्थं गतः गुरुभिः सकलभव्योपकाराय धर्मोपदेशो दत्तस्तदापद्मशेखर भूपः श्रीगुरूणा समीपात्सम्यग् जीवादितत्वपरमार्थमवबुध्य वज्रलेपवत्स्वहृदये | धारयति स्म । अन्यैरपि च बहुभिर्भव्यैः सम्यक्त्वरत्नं संप्राप्तं । ततः सर्वोऽपि नृपादिलोकः सविनयं गुरुं नत्वा स्वस्थानं प्राप्तः । गुरवोऽपि ततो विहृत्यान्यत्र गताः । अथ पद्मशेखरभूपतिः श्रीजिनोक्ततत्त्वेषु परमास्तिक्यं | बिभ्राणः सुखेन कालं गमयति । तथा यः कोऽपि मंदबुद्धिः शठो जीवादितत्त्वानि न मन्यते, तं पुरुषं वरसारथि For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१०३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy