SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जिनलाभ सरि विरचिते आत्म प्रबोधग्रन्थे ॥१०३॥ Jain Education Inter प्रमुदितः सर्वोऽपि लोकः सत्यमनसा राज्ञो गुणान् वर्णयन् दयामयं श्रीजिनधर्मं चानुमोदयन् स्वस्वस्थानं संप्राप्तः, | राजापि महतोत्सवेन तथैव प्रतोल्या पुरं प्रविश्य निजमंदिरं समाजगाम । इंद्रदत्तोऽपि सहर्ष स्वगृहं गतः सर्वेऽपि जनाः सुखिनो जाताः, तदा बहुभिर्भव्यात्मभिर्दयामयः श्रीजिनधर्मः प्रतिपन्नः । इत्यनुकंपायां सुधर्म भूपदृष्टांतः । एवमन्यैरप्यात्मधर्मोपलक्षिका सर्वसुखश्रेणिप्रतिपादिका निखिलजगज्जंतुष्वनुकंपा रक्षणीया । इत्यनुकंपाख्यं चतुर्थ लक्षणं ॥ ४ ॥ तथा पंचममास्तिक्यलक्षणं, अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यं तत्त्वांतरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकांक्षाप्रतिपत्तिः जिनवचने प्रत्यय इत्यर्थः । आस्तिक्येन हि जीवधर्मत्वेन अप्रत्यक्षमपि सम्यक्त्वं लक्ष्यते, तद्वान् आस्तिक इत्युच्यते । यदागमः-मन्नइ तमेव सच्चं, निस्संकं जं जिणेहि पन्नत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तियारहिओ ॥ १ ॥ भावार्थस्तु पद्मशेखरकथागम्यः । सा चैवं अस्मिन् जंबूद्वीपे भरतक्षेत्रे पृथिवीपुरं नाम नगरं । तत्र पद्मशेखरो नाम राजा रज्यं शास्ति । एकदा तन्नगरासन्नचैत्ये बहुसाधुपरिवृताः श्रीविनयंधरसूरयः समवसृताः । राजा बहुलोकसमन्वितस्तद्वंदनार्थं गतः गुरुभिः सकलभव्योपकाराय धर्मोपदेशो दत्तस्तदापद्मशेखर भूपः श्रीगुरूणा समीपात्सम्यग् जीवादितत्वपरमार्थमवबुध्य वज्रलेपवत्स्वहृदये | धारयति स्म । अन्यैरपि च बहुभिर्भव्यैः सम्यक्त्वरत्नं संप्राप्तं । ततः सर्वोऽपि नृपादिलोकः सविनयं गुरुं नत्वा स्वस्थानं प्राप्तः । गुरवोऽपि ततो विहृत्यान्यत्र गताः । अथ पद्मशेखरभूपतिः श्रीजिनोक्ततत्त्वेषु परमास्तिक्यं | बिभ्राणः सुखेन कालं गमयति । तथा यः कोऽपि मंदबुद्धिः शठो जीवादितत्त्वानि न मन्यते, तं पुरुषं वरसारथि For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१०३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy