SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि पिरचिते मात्म Jain Education Interna संति । तेन वरदत्तेन तामुदूघोषणां श्रुत्वा स्वभार्या पृष्टा - " हे प्रिये ! लघुपुत्रमिंद्रदत्तं दत्त्वा इदं द्रव्यं गृह्यते तर्हि वरं यतो द्रव्यप्राप्तौ सर्वे गुणा भविष्यति । उक्तं च यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवन् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः कांचनमाश्रयंति ॥ १ ॥ पुनर्हे भद्रे ! धनमाहात्म्यं पश्यपूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वंद्यते यदवद्योऽपि तत्प्रभावो धनस्य च ॥ २ ॥ तथा हे प्रिये ! एतदूधने गृहमागते सति बहुभिर्ब्राह्मण भोजनादिधर्मकृत्यैरेतत् पापं सद्यः परिहरिष्यावहे, ततोऽत्रार्थे कापि चिंता न कार्येति । " तदा तयापिधनलुब्धया निष्करुणतया तद्वचस्तथेति प्रतिपन्नं । ततो वरदत्तेन पटहं धृत्वा प्रोक्तं'मयमिदं द्रव्यादि दीयतां, अहं भवद्भयः पुत्रं दास्यामि । ' तदा महाजनेन भणित- ' यदि त्वं भार्यासहितः पुत्रस्य गलमोटनं कृत्वा देवतायै बलिं दद्यास्तहृदं सर्वं तुभ्यं दीयते नान्यथा । ' वरदत्तेन तत् सर्व प्रतिपन्नं । तदा पार्श्वस्थेनेंद्रदत्तेन तां पितुः प्रवृत्तिं श्रुत्वा मनसि चिंतितं " अहो स्वार्थ एव संसारे प्रियोऽस्ति, परमार्थतः कोsपि कस्यचित् वल्लभो नास्ति । यदुक्तं- ' वृक्षं क्षीणफलं त्यजंति विहगा' इत्यादि । पुनरचिति- ' यो दरिद्रो भवति तस्य प्रायः करुणा न भवत्येव । उक्तं च- बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवंति । आख्याहि भद्रे ! प्रियदर्शनस्य, न गंगदत्तः पुनरेति कूपं ॥ १ ॥ इत्यादि । ” ततो वरदत्तेन द्रव्यं गृहीत्वेत्थं विचितयत्र स पुत्रो महाजनायार्पितः, महाजनेन च सद्वस्त्र चंदनपुष्पतांबूलतिलककुंडलकेयूरकटकमुक्ताफलहारप्रभूति विभूषणे भूषयित्वा राजसमीपमानीतः, तदा राज्ञापि सालंकारं मातापितृसमन्वितं बहुभिर्नगरलोकैर्वेष्ठित For Private & Personal Use Only प्रथमः प्रकासे सम्व स्वरूप ॥१०१ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy