SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि पिरचिते मात्म Jain Education Interna संति । तेन वरदत्तेन तामुदूघोषणां श्रुत्वा स्वभार्या पृष्टा - " हे प्रिये ! लघुपुत्रमिंद्रदत्तं दत्त्वा इदं द्रव्यं गृह्यते तर्हि वरं यतो द्रव्यप्राप्तौ सर्वे गुणा भविष्यति । उक्तं च यस्यास्ति वित्तं स नरः कुलीनः, स पंडितः स श्रुतवन् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः कांचनमाश्रयंति ॥ १ ॥ पुनर्हे भद्रे ! धनमाहात्म्यं पश्यपूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वंद्यते यदवद्योऽपि तत्प्रभावो धनस्य च ॥ २ ॥ तथा हे प्रिये ! एतदूधने गृहमागते सति बहुभिर्ब्राह्मण भोजनादिधर्मकृत्यैरेतत् पापं सद्यः परिहरिष्यावहे, ततोऽत्रार्थे कापि चिंता न कार्येति । " तदा तयापिधनलुब्धया निष्करुणतया तद्वचस्तथेति प्रतिपन्नं । ततो वरदत्तेन पटहं धृत्वा प्रोक्तं'मयमिदं द्रव्यादि दीयतां, अहं भवद्भयः पुत्रं दास्यामि । ' तदा महाजनेन भणित- ' यदि त्वं भार्यासहितः पुत्रस्य गलमोटनं कृत्वा देवतायै बलिं दद्यास्तहृदं सर्वं तुभ्यं दीयते नान्यथा । ' वरदत्तेन तत् सर्व प्रतिपन्नं । तदा पार्श्वस्थेनेंद्रदत्तेन तां पितुः प्रवृत्तिं श्रुत्वा मनसि चिंतितं " अहो स्वार्थ एव संसारे प्रियोऽस्ति, परमार्थतः कोsपि कस्यचित् वल्लभो नास्ति । यदुक्तं- ' वृक्षं क्षीणफलं त्यजंति विहगा' इत्यादि । पुनरचिति- ' यो दरिद्रो भवति तस्य प्रायः करुणा न भवत्येव । उक्तं च- बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवंति । आख्याहि भद्रे ! प्रियदर्शनस्य, न गंगदत्तः पुनरेति कूपं ॥ १ ॥ इत्यादि । ” ततो वरदत्तेन द्रव्यं गृहीत्वेत्थं विचितयत्र स पुत्रो महाजनायार्पितः, महाजनेन च सद्वस्त्र चंदनपुष्पतांबूलतिलककुंडलकेयूरकटकमुक्ताफलहारप्रभूति विभूषणे भूषयित्वा राजसमीपमानीतः, तदा राज्ञापि सालंकारं मातापितृसमन्वितं बहुभिर्नगरलोकैर्वेष्ठित For Private & Personal Use Only प्रथमः प्रकासे सम्व स्वरूप ॥१०१ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy