________________
वनलाम
विरचिते
बात्म
प्रबोधग्रन्थ ॥१०॥
देवता कुपिताऽस्ति, सा प्रतिदिनं प्रतोली पानयति। यदि राज्ञा मातृपितृभ्यां वा स्वहस्तेनैकं मनुष्यं हत्वा तद्रक्तेन प्रतोली सिच्यते तदा सा स्थिरा भविष्यति, नान्यैः पूजाबलिनैवेद्यादिभिः।" एतद्वचनं श्रुत्वा राजा पाह-18
प्रथम |" यदीहरजीववधेनेयं प्रतोली स्थिरा भवेत् तर्हि अनया प्रतोल्या अनेन नगरेण च मम किमपि प्रयोजनं नास्ति।
प्रकाशे
सम्यक्त्व यदुक्तं-क्रियते किं सुवर्णेन, शोभनेनापि तेन च । कर्णस्त्रुटति येनार्ग-शोभाहेतुनिरंतरं ॥१॥ तस्माद् यत्राहं
खरूपं तत्र नगरमिति।" ततो मंत्रिणा ईदृशं राज्ञो निश्चयं विज्ञायसर्वानपि महाजनानाकार्योक्तं-"भो लोकाः! श्रूयतां, ॥१०॥ | मनुष्यवधं विनैषा प्रतोली स्थिरा न भवति, मनुष्यवधादिकं तु नृपादेशं विना कर्तुमशक्यं, तस्माद्भवतां विचारे यत्समायाति तत्कुर्वतु।" ततो महाजनेन नृपाग्रे आगत्य भणितं-'स्वामिन् ! वयं सर्वमप्येतत्कार्य करिष्यामो भवद्भिस्तूष्णीं कृत्वा स्थातव्यं ।' राज्ञोक्तं-'प्रजाभिर्यत् पापं पुण्यं च क्रियते तस्य षष्ठो भागो मामपि समेति, तस्मादेतत्पापकार्ये सर्वथा मेऽभिलाषो नास्ति ।' ततः पुनरपि महाजनेनात्याग्रहेणोक्तं-' स्वामिन् ! पापभागो. |ऽस्माकं पुण्यभागो भवतापित्यस्मद्वयोऽवधार्य सांप्रतं भवद्भिः किमपि न जल्पनीयं ।' तदा राजा तुमौनमाधाय | स्थितः ततो महाजनेन प्रतिगृहं द्रव्यस्योद्ग्रहणिकां कृत्वा तेन द्रव्येण कांचनमयः पुरुषो निर्मापितः। पश्चात् तं पुरुषं शकटे संस्थाप्य कोटिद्रव्यपत्रिकां च तदग्रे मुक्त्वा नगरमध्ये उद्घोषितं-'यदि मातापितरौ स्वहस्तेन पुत्रस्य गलमोटनं कृत्वा देवतायै बलिं प्रयच्छेतां, तर्हि ताभ्यामयं कांचनमयः पुरुषः कोटिद्रव्यं च दीयते इति । अथ तत्रैव नगरे महादरिद्रो वरदत्तनामा ब्राह्मणोऽस्ति, तद्भार्या रुद्रसोमा, सा निष्करुणा, तयोः सप्त पुत्राः
Jain Education Intem
For Private & Personal use only
ww.jainelibrary.org