SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाचे बिनलाभ सरि विरचिते मात्मप्रबोधग्रन्थे ॥९९॥ सम्यक्त खरूप SRUSS नास्तिकमतानुयायी जयदेवनामा मंत्र्यस्ति । एकदा ग्रामांतरादागतेन केनचिच्चरेण आस्थानमंडपे उपविष्टस्य राज्ञो|ऽग्रे विज्ञप्तिः कृता-'स्वामिन् ! महाबलनामा सीमालभूपतिः सांप्रतं ग्रामघातसार्थपातादिप्रकारैरत्यंत लोकान् पीडयति । स च महादुष्टो भवंतमंतरेण केनापि साधयितुमशक्योऽस्ति ।' तत श्रुत्वा राज्ञा मंत्रिसन्मुखं दृष्ट । तदा मंत्रिणोक्तं-'स्वामिन्नसौ वराकस्तावद्गर्जति यावद्भवता नाकाम्यते । यदुक्तं-तावद्गर्जन्ति मातंगा, बने मद| भरालसाः। शिरोऽवलग्नलांगूलो, यावन्नायाति केसरी ॥१॥' इत्यादि मंत्रिवचः श्रुत्वा राज्ञा चिंतित-"यो निजमंडलस्य कंटकी भवति सोऽवश्यं निराकरणीयः, अन्यथा राज्ञो नीतिभंगप्रसंगः स्यात् । नीतिशास्त्रे च दुष्टनिग्रहः शिष्टपालनं च राज्ञो धर्म इत्यादिश्रवणात, तस्मादतः परमत्रार्थे विलंबोन कार्यः।" एवं विचित्य राजा मद्यः | | स्वसैन्यं संमेल्य निजशत्रोर्महाबलस्योपरि प्रस्थितः, क्रमेण तद्देशे गत्वा, संग्रामे तं जित्वा तत्सर्वस्वं गृहीत्वा महतानंदेन निजनगरसमीपं सप्राप्तः। ततः प्रवेशसमये महाजनेन महोत्सवे क्रियमाणे बहुसैन्यपरिवृतो भूपतिर्यावन्मुख्यप्रतोलीपार्वे समागतस्तावत् सा प्रतोली पतिता, ततोऽपशकुनमिति ज्ञात्वा व्याघुट्यनगरवाद्येऽव स्थितो भूपः, ततो मंत्रिणा तत्कालं तत्स्थाने एव नवीना प्रतोली कारिता। अथ द्वितीयदिने राज्ञः पुरप्रवेशसमये सापि तथैव पतिता। एवं तृतीयदिवसेऽपि जातं। ततो बहिःस्थित एव भूपतिर्मत्रिणं प्रति पृष्टवान्-'भो जयदेव! एषा प्रतोली कथं पुनः पुनः पतति ? अथ केनोपायेन स्थिर भविष्यति।' तदा मंत्रिणा झटिति कंचिन्निमित्तझं पुरुषमापृच्छय राज्ञे उक्तं "हे महाराज!मया पृष्टेनैकेन नैमित्तिकेनैवमुक्तं-अस्याः प्रतोल्य अधिष्ठायिका काचिद् ONUS * Jain Education Inter For Private & Personal use only w w w.jainelibrary.org *
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy