SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि बिरचिते आत्म प्रबोधग्रन्थे ॥ ९८ ॥ Jain Education Intern पश्चाद्भूमौ लुठन् तद्गर्भस्तेन दृष्टस्तदा कुतोऽपि शुभोदयात् तस्य मनसि वैराग्यं समुत्पन्नं, स चौरो निर्वेदगुणयुक्तः सन् चिंतयति स्म - ' आः किमिदं पापं मया पापिष्ठेन कृतं ? धिग्मां नरजन्मनि एताहग्घोर पापकारिणं ।' इत्यादि विचित्य पंचमुष्टिमयं लोचं कृत्वा स चारित्रं जग्राह । ततो यावदेतत् पापं मे स्मृतिमायास्यति तावन्मयाअन्नं पानं च न ग्राह्यमित्यभिग्रहं गृहीत्वा तत्रैव पुरे पूर्वप्रतोल्यां स कायोत्सर्गेण तस्थौ । तन्नगरलोकैर्लेष्टुयष्टिप्रहारैराहन्यमानोऽपि क्षमामेवाकरोत्, मनागपि चेतसि न चुक्षोभ । सार्द्धमासानंतरं च न कोऽपि तत्पापं स्मारयति स्म । ततो द्वितीयप्रतोल्यां स कायोत्सर्गेण तस्थौ । तत्रापि तथैव जातं । एवं यावच्चतुर्थप्रतोल्यां, तदेवं दुःखमयसंसारविरक्तः परमसंवेगरससंसक्तश्च सन् षड्भिर्मासैः सर्वमपि तत्पापं समूलमुन्मूल्य केवलज्ञानं प्राप्य तत्क्षणं सिद्धिं जगाम । इति संवेग निर्वेदयोरुपरि दृढप्रहारिकथा । एतां कथां निशम्यान्यैरपि आत्महितार्थिभिर्यत्नेनैतौ धार्यौ ॥ इति द्वितीयतृतीयलक्षणे ॥ २-३ ॥ तथा दुःखीतेषु प्राणिषु अपक्षपातेन दुःखनिराकरणेच्छाऽनुकंपा, पक्षपातेन तु केवलं दुष्टस्वभावानां व्याघ्रादीनामपि स्वपुत्रादौ करुणास्त्येव परं वस्तुतः सा करुणा न भवतीत्यत उच्यते ' अपक्षपातेनेति' सा चानुकंपा द्विधा- द्रव्यतो भावतश्च । तत्र द्रव्यतोऽनुकंपा कमपि दुःखिनं दृष्ट्वा सत्यां शक्तौ तस्य दुःखप्रतिकारविधानेन भवति । भावतस्तु आर्द्रहृदयत्वेनेति । इयं च द्विधाप्यनुकंपा इंद्रदत्तमाश्रित्य सुधर्म भूपवत् सम्यक्तित्वभिर्निरंतरं समाश्रयणीया । इह सुधर्मभूपतेः कथानकं चेदं - पांचालदेशे वरशक्तिनाम नगरं । तत्र करुणार्द्रातःकरणः परमधार्मिको जैनमतानुसारी सुधर्मा नाम राजा राज्यं शास्ति । तस्य For Private & Personal Use Only प्रथमः प्रका सम्यक्त्य ॥ ९८ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy