________________
चिनलाभपरि विरचिते
आत्म
प्रबोधग्रन्थे
॥ ९७ ॥
Jain Education Inter
क्त्वभिर्निखिलाभ्यंतर तापनिवारके स्वपरोपकारके परमोपशमरसे निमज्जनीयं यथा परमानंदसुखश्रेणयः समुलसेयुः ॥ इति उपशमाख्यं प्रथमं लक्षणं ॥ १॥ तथा प्रवरतरदेवनर सुखानां परिहारेण केवलं मुक्तिसुखाभिलाषः संवेगः । सम्यग्दृष्टिर्हि नरेंद्रसुरेंद्राणां दिव्यान्यपि विषयसुखानि अनित्यत्वाद् दुःखानुबंधित्वाच्च दुःखतया मन्यमानो नित्यानंदस्वरूपं मोक्षसुखमेव सुखत्वेन मन्यते वांछति चेति । इदं द्वितीयं लक्षणं २ । तथा नारकतिर्यगादिसांसारिकदुःखेभ्यो निर्विण्णता निर्वेदः, सम्यग्दर्शनी हि जन्मादिदुःखातिगहने संसारकारागारे गुरुतरकर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्त्तुमक्षमो ममत्वरहितश्च सन् दुःखेन भवविरक्तो भवति । इदं तृतीयं लक्षणं ॥ एतौ च संवेगनिर्वेदो मुक्तिपदप्रापकत्वात् सुदृष्टिजनैर्दृढप्रहारिवत् सर्वदाऽऽश्रयणीयौ । दृढप्रहारिवृत्तान्तस्त्वयं - माकंदिनगर्यां सुभद्रः श्रेष्ठी वसति । तस्य दत्तनामा पुत्रः, स च शैशवे बालैः सह रममाणो दृढप्रहारेण तान्मारयति, तदा लोकैर्दृढप्रहारीति तस्य नाम दत्तं । अथ प्रत्यहमेवं कुर्वतं तं दृष्ट्वा लोकाः श्रेष्ठिने उपालंभं ददुः । ततः श्रेष्ठिना बहुधा वारितोऽपि स क्रूरत्वाद् बालान् मारयत्येव । तदा लोकै राज्ञे तत्स्वरूपं कथितं । ततो राजादेशात् श्रेष्ठिना स्वगृहात् स निष्कासितः । अथातिक्रूरस्वभावः स बालः कापि निवासमलभमानश्चौरपल्ल्यां गतः । तत्र कुसंसर्गाचौरो जातः । एकदा एकस्य दरिद्रब्राह्मणस्य गृहे स चौर्यार्थिं प्रविष्टः, तदा शृंगाभ्यामानंती चौर्यांतरायं कुर्वती सौरभेयी तत्संमुखं धाविता । सा च तेन निर्दयेन सद्यः खङ्गेन हता । ततो जागृगे ब्राह्मणः | करेण यष्टिमुत्पाट्य संमुखं गतः सोऽपि तथैव मारितः तदनु पूत्कारं कुर्वाणा सगर्भा ब्राह्मण्यपि तेन मारिता ।
For Private & Personal Use Only
Shhh
प्रका
सम्यक्त्व स्वरुप ॥ ९७ ॥
ww.jainelibrary.org