SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ बिमलाम सरि विरचिते मात्म- प्रबोधग्रन्थे | कोपं कृत्वा अधुनोत्पद्यमानं केवलज्ञानं हारितमिति।" तत एवं पश्चात्तापं कुर्वन् अतिकरुणारसमग्नः स साधुः प्रथमः सर्वलोकानां स्थिकरणाय समुत्थानश्रुतं परावर्तयितुमारब्धवान् । तन्मध्ये बहून्याह्लादजनकानि सूत्राणि संति, 81, प्रकारे यत्प्रभावादुद्वसमपि ग्रामादिकं सद्यः सुवसं स्यात। अथ यथा यथा स तत्सूत्रं परावर्तितवान् तथा तथा प्रमुदिताः सम्यक्त्व सर्वेऽपि लोका नगरमध्ये समागताः, राजापि सहर्षः स्वस्थान प्राप्तः, भयवार्ता सर्वापि नष्टा, स्वस्थीभूतश्च सर्व- स्वरूप लोकः । ततः तपःशोषितशरीरः परमोपशमरसनिमग्नो दमसारमुनिस्तत्राहारमगृहीत्वैव पश्चादलितः प्राप्तश्च सविनयं खामिसमीपं । तदा स्वामिना प्रोक्तं-"भो दमसार ! अद्य चंपायां नगाँ मिक्षार्थ गच्छतस्तव मिथ्यादृष्टिवचनात्क्रोधः समुत्पन्न इत्यादि यावदुपशांतकोपस्त्वमिह संप्राप्तः, अयमर्थः समर्थः?।' स प्राह-' तथैवेति।' पुनःस्वामिनोक्तं-'भो दमसार! योऽस्माकं श्रमणो वा श्रमणी वा कषायमुद्दहति स दीर्घसंसारं करोति, यस्तूप| शमं दधाति तस्य संसारोऽल्पो भवति ।' एतद्वयो निशम्य मुनिः प्राह-'भगवान् ! मह्यमुपशमसारं प्रायश्चित्तं | देहि ।' तदास्वामिना तपः प्रतिपत्तिरूपं प्रायश्चित्तं दत्तं । ततो दमसारमुनिः स्वामिसमीपेऽभिग्रहं गृहीतवान्|'यदा मे केवलज्ञानं भविष्यति तदाहमाहारं ग्रहीष्यामीति।' एवमभिग्रहं गृहीत्वा दमसारमुनिः संयमेन तपसा | चात्मानं भावयन् विचरति स्म । ततस्तस्य साधोः प्रमादजनितं दोषं निंदतो गर्हमाणस्य च शुभाध्यवसायेन सप्तमे दिवसे केवलज्ञानं समुत्पन्नं । देवैर्महिमा कृतः। तदनंतरं दमसारर्षिबहून् जनान् प्रतियोध्य द्वादश वर्षाणि यावत् | केवलपर्यायं पालयित्वा प्रांते संलेखनां कृत्वा सिद्धिं गतः। इति उपशमोपरि दमसारदृष्टांतः। एवमन्यैरपि सम्य SAKAL in Education Inter For Private & Personal Use Only W w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy