________________
जिनलाभ- तत्रागतः, अन्यदा मासक्षपणपारणादिने प्रथमपौरुष्यां स्वाध्याय विधाय द्वितीयपौरुष्यांध्यानं ध्यायतस्तस्य मनसरि
प्रथमा सि एतदृग् विचारः समुत्पन्न:- अद्याहं स्वामिनं पृच्छामि किमहं भव्योऽभव्यो वा चरमोऽचरमो वा? मम केव-18 विरचिते
प्रकार लज्ञानं भविष्यति न वेति' अथैवं विचार्य स मुनियंत्र श्रीवीरस्वामिनः स्थिता आसन् तत्रगत्य भगवंतं त्रिपद आत्मप्रबोधग्रन्थे
क्षिणीकृत्य वंदित्वा पर्युपासते स्म । तदा श्रमणो भगवान् श्रीमहावीरो दमसारं प्रत्येवमवादीत- भो दमसार! ॥९४ ॥ अद्य ध्यानं ध्यायतस्तव हृदयकमलेऽयमध्यवसायः समुत्पन्नः, अहं स्वामिनं पृच्छामि किमहं भव्योऽभव्यो वा ?
इत्यादि, सत्योऽयमर्थः?' मुनिः प्राह-'एवमेव' इति। ततः स्वामी प्रह-'भो दमसार! त्वं भव्योऽसि नोऽभव्यः, पुनस्त्वं चरमशरीरोऽसि नोऽचरमः, तव केवलज्ञानं तु प्रहरमध्ये समागतमस्ति, परं कषायोदयेन तद्विलंबो भवि
ध्यति ।' दमसारः माह- स्वामिन् ! कषायं परिहरिष्यामि ।' ततस्तृतीयपौरुष्यां स मुनिर्भगवदाज्ञां गृहीत्वा | दमासक्षपणपारणके भिक्षार्थ युगमात्रया दृष्टया ईर्यापथं विलोकयन् यत्र चंपानगरी तत्र संप्राप्तः, तदानीं शीर्षे ||
सूर्यस्तपति, पादयोरधस्तात् ग्रीष्मातपेन तप्ता वालुकाग्निवत्प्रज्ज्वलति, तत्पिडया व्याकुलीभूतो मुनिनगरवारे | | स्थित्वा चिंतयति स्म-' सांप्रतं धर्मातपो दुस्सहो यदि कोऽप्यत्र नगरीवास्तव्यजनो मिलति तर्हि तं प्रति निकटमार्ग पृच्छामि।' तस्मिन् समये कोऽपि मिथ्यादृष्टिः किंचित्कार्य विधातुं गच्छन् तत्रायातः, सोऽपि सन्मुखमि- | लितं [महामंगलभूतमपि] तं साधु विलोक्यापशकुनं मे जातमिति चिंतयन पुरद्वारे स्थितः, तदातं मिथ्यात्विनं प्रति साधुना पृष्टं-'भो भद्र ! अस्मिन् पुरे केन मार्गेणासन्नगृहाणि प्राप्यते।।' तेन चिंतित- एष नगरस्वरूपं
Jain Education Inter
For Private & Personal Use Only
R
w.jainelibrary.org