________________
विनलाभ
प्रथमः प्रकारे
'परि
विरचिते
बात्मअपोषग्रन्थे ॥१३॥
तरावापृच्छे ।' तदा स्वामी प्राह-'यथासुखं देवानुप्रिय ! मा प्रतिबंध कार्पोरिति ।' ततः कुमारो गृहमागत्य पित्रोः पुर इत्युवाच-'भो मातापितरौ! अद्य मया स्वामिनो वंदितास्तत्प्रणीतो धर्मो मे रुचितः, अथ भवदनुज्ञा-12 तोऽहं संयमं ग्रहीतुमिच्छामि ।' तदा मातापितरावूचतुः-“पुत्र! त्वमद्यापि बालोऽसि अभुक्तभोगकर्मासि संयममार्गस्त्वतिदुष्करस्तीक्ष्णखड्गधारोपरिचंक्रमणसदृशो विद्यते, स चातिसुकुमालशरीरेण भवता सांप्रतं पालयिः | तुमशक्यस्तस्मात् सांसारिकसुखानि भुक्त्वा परिणतवयस्को भूत्वा पश्चाच्चारित्रग्रहणं कुर्या” इति । एतत् श्रुत्वा पुनर्दमसारः प्राह-" भो मातापितरौ ! युवाभ्यां संयमस्यदुष्करता दर्शिता, तत्र न संदेहः परं सा दुष्करता | कातरनराणामस्ति, धीराणां तु किमपि कार्य दुष्करं नैव । यदुक्तं-ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो। ता विसमा कजगई, जाव ना धीरा पवज्जंति ॥१॥ नथातृप्ततयाऽनंतशो भुक्तपूर्वेषु निस्सारेषु सांसारिकसुखेष्वपि * मे इच्छा नास्ति । तस्माद्भवतो अविलंबेन मह्यमाज्ञां प्रयच्छतां. यतोऽहं संयमग्रहणं कुर्यां ।" इत्येवं दमसारस्य संयमे निश्चयं विज्ञाय मातापितरौतदीयं निष्क्रमणमहोत्सवं चक्रतुः । तदा दमसारकुमारः प्रवर्द्धमानपरिणामैः श्रीवीरपाचे व्रतं जग्राह । मातापितरो च सपरिकरी स्वस्थानं गतौ । ततो दमसारर्षिः षष्ठाष्टमदशमादिविविध-* तपांसि कृत्वैकदावीरपाचे एवमभिग्रहं गृह्णाति स्म-'स्वामिन्नहं यावजीवं मासक्षपणतप उपसंपद्य विहरिष्यामीति ।' स्वामिनोक्तं- यथासुखं देवानुप्रियेति ।' ततः स मुनिर्बहुभिर्मासक्षपणतपाकर्मभिः शरीरं शोषयित्वा | नाज्यस्थिमात्रावशेषः संजातः, तस्मिन् समये भगवान् वर्द्धमानस्वामी चंपायां नगर्या समवसृतः, दमसारोऽपि
CAREE
Jain Education interme
For Private & Personal use only
w.jainelibrary.org