SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मययः विरचिते खम ।।८९॥ है। मुग्धान् जनान् वंचयति ।' तदा स पुनराचख्यो-' हे भद्रे ! यत्त्वयोक्तं तत्सत्यं, परं यद्येवं कृतेऽपि शासनोन्न तिर्जायेत तर्हि अत्र को दोषः।' सावोचत्- एतादृग्वार्ताकथनेन त्वं तु मुग्धो दृश्यसे, परं ज्ञानदृष्टया चिंतय, | बिनलाभ- असइयवहारेण का शासनोन्नतिः ? किं तु प्रत्युत लोकोपहासादपभ्राजनैव जायते' इति । ततश्च स पुमानुत्थाय परि पश्चाद्गत्वा अंबडस्याग्रे सर्व तद्वृत्तांतमवादीत्।तदा अंबडोऽपि अनुत्तरं सुलसाया धर्मे स्थैर्य ज्ञात्वा-'अहो यद्वी-10 प्रकारे सम्यक्त्व रखामिना सभासमक्षं स्वयमेषा धर्मशुद्धिप्रश्नेन संभाविता तयुक्तमेव, यत इत्थं मया चालिताप्येषा न मनसापि आत्मप्रबोधग्रन्थे चलिता' इति विचिंत्य तं प्रपंचं संहृत्य स्वमूलरूपेण स सुलसाया गृहं प्राविशत्। ततस्तमागच्छंतं दृष्ट्वा सुलसापि साधर्मिकभक्त्यर्थ सद्यः समुत्थाय तत्संमुखं गत्वा-' हे त्रिजगतुंर्वीरस्योपासक! ते स्वागत विद्यते ?' इति प्रश्नपूर्वकं तत्पादप्रक्षालनं कारयित्वा तं प्रति स्वगृहचैत्यं वंदयामास । अंबडोऽपि आहतः सन् विधिना चैत्यवंदनं विधाय तामूचे-' हे महासति !अस्मिन् भरते त्वमेवैका पुण्यवत्यसि, यतस्त्वां प्रति श्रीवीरस्वामिना स्वयं मन्मुखेन धर्मशुद्धिप्रश्नः कारितोऽस्ति ।' एतत् श्रुत्वातिशयानंदसंपन्ना सा भगवद्विचरणदिगभिमुखीभूय शिरस्यंजलिं कृत्वा श्रीवीरप्रभुमेव हृदि निधाय प्रशस्तवाण्याचीरम]स्तवीत् । ततोऽबडो विशेषतस्तदाशयपरिज्ञानार्थ पुनस्ता|मवोचत्-'मयात्रायातमात्रेण लोकमुखादस्मिन् पुरे ब्रह्माद्यागमनवार्ता श्रुता, तत्र तेषां दर्शनार्थं त्वं किं गता न वा?।' तदा सा पाह-" हे धर्मज्ञ ! ये श्रीजिनधर्मानुरक्तास्ते पुरुषाः सकलरागद्वेषारिविजेतृनिखिलभव्यजनोपकर्तृसर्वज्ञसर्वातिशयसमन्वितस्वतेजोविनिर्जितसहस्रकिरणश्रीमन्महावीरस्वामिनं देवाधिदेवं विहाय अन्यान् | Jain Education t o For Private & Personal Use Only MIww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy