SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ बिनलाभवरि विरचिते आत्म प्रबोधग्रन्थे ॥ ८७ ॥ Jain Education Interns बभूवतुः । अथान्यदा चंपापुर्यां श्रीवीरस्वामी समवसृतः पर्षदो मिलिताः, भगवता देशना प्रारब्धा तदा श्रीवीरप्रभोरुत्तमश्रावको दंडच्छत्रकापायांवरधारको अंबडनामा परिवाद् तत्रागत्य जगत्प्रभुं नत्वा उचितस्थाने उपवि श्य धर्मदेशनां शुश्राव । ततो देशनांते अंबडो भक्त्या प्रभुं नत्वेत्यवोचत् - 'स्वामिन्नधुना मम राजगृहं प्रति गमनेच्छा वर्त्तते ।' तावत्स्वामिनोक्तं- भो देवानुप्रिय ! तत्र गतेन त्वया नागरथिनः प्रियां सुलसानाम्नीं श्राविकां प्रति अस्माकमादेशान्मधुरवाण्या धर्मशुद्धिः पृष्टव्या' इति । ततः सोऽपि भगवद्वाक्यं तथेति प्रतिपद्याकाशमार्गेण गच्छन् राजगृहं प्राप्य पूर्व सुलसायागृहद्वारे क्षणं स्थित्वेत्थमचिंतयत्- ' अहो ! यां प्रति त्रिजगत्स्वामिना धर्मशुद्धिप्रश्नः कारितः सा सुलसा कीदृशी दृढधर्मिणी भविष्यति ? अहमस्याः परीक्षणं कुर्वे । ' एतद्विचिंत्य स वैक्रिय लब्ध्या सद्यो रूपांतरं विधाय तद्गृहं प्रविश्य सुलसात एव भिक्षामयाचिष्ट । सा तु सत्पात्रं विनान्यस्मै अशनादिकं न प्रयच्छामीति स्वयं प्राक्कृतां प्रतिज्ञामविस्मरंती तस्मे याचमानाय स्वहस्तेन भिक्षां न ददौ। ततोऽसौ तद्गृहान्निःसृत्य पुराद्वहिः पूर्वस्यां दिशि चतुर्मुखं चतुर्भुजं ब्रह्मसूत्राक्षमालाभ्यां विराजितं हंसवाहनं सावित्रीसमन्वितं पद्मासनासीनं रक्तवर्ण एवंविधं साक्षाद्ब्रह्मरूपं विधाय चतुर्मुखैश्चतुर्णां वेदानां ध्वनिं कुर्वन् तस्थौ । तदा 'अहोऽय पुराद्वहिः पूर्वदिग्भागे साक्षाद्रह्मा समागतोऽस्तीति' लोकमुखात्प्रवृत्तिं श्रुत्वा केचिन्नागरि कास्तद्भक्त्यर्थं केचित्पुनः कौतुकविलोकनार्थं, एवं बहवो जनास्तत्र संप्राप्ताः परं सम्यक्त्वेऽति निश्चलचित्ता खुलसा तु खव्रतरक्षणार्थं तद्वात श्रुतामप्यश्रुतामिवकृत्वा तत्र नागमत् । ततस्तामनागतां मत्वा अंबडो द्वितीयेऽह्नि दक्षि For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं 112011 w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy