________________
*
प्रथमा
प्रकारे
जिनलाभ
सरि विरचिते
आत्मप्रबोधग्रन्थे ॥८६॥
सम्यक्त्व
2525
तामेव श्रेणिकस्य रथे समारोप्य स्वयं निजरत्नाभरणकरंडकं समानेतुं यावद्गता तावत्सुलसात्मजा राजानं प्रत्यूचुः|'स्वामिन् ! अत्र शत्रगृहेऽस्माकं चिरंस्थातुं न युक्तं' ततस्तत्प्रेरितो राजाचेल्लणामेव समादाय सद्यः पश्चा लितः। अथ सुज्येष्ठापि स्वरत्नाभरणकरंडकमादाय यावत्तत्रागता तावत् श्रेणिकं नैक्षिष्ट। तदासावपूर्णमनोरथा भगिन्या वियोगदुःखेन पीडिता च सती उच्चैः स्वरेण-'हा चेल्लणा हियते' इति पूचकार । तत् श्रुत्वा क्रोधाकु-| लश्चेटको राजा स्वयमेव यावत्सन्नद्धो भवति, तावत्पार्श्वस्थो वैरंगिकभटो राजानं निवार्य स्वयं कन्यायाः प्रत्यावत्यर्थमचलत । ततः स भटः सद्यस्तत्र गत्वा सुरंगाया निर्गच्छतः सुलसासुतान् सर्वानपि समकालमेकबाणेनैवावधीत । ततः परं सुरंगायोः संकीर्णत्वेन स यावद् द्वात्रिंशतं रथानाकर्षयत् तावत् श्रेणिको बहुमार्गमुल्लंघ्य गतः, ततश्च वैरंगिको भटः पूर्णापूर्णमनोरथः सन् ततः प्रत्यावृत्त्य चेटकभूपाय तं वृत्तांत निवेद्य स्वगृहं गतः। अथ श्रेणिकभूपः शीघं राजगृहमागत्यातिप्रीत्या चेल्लणां गांधर्व विवाहेन परिणीतवान् । ततो नागसुलसे राज्ञो मुखात्सर्व
पुत्रमरणवृत्तांतंश्रुत्वा तदुःखपीडिते अत्यर्थ विलेपतुः, तदा शोकसमुद्रे मग्नयोस्तयोर्योधनाय श्रेणिकोऽभयकुमा४ रयुक्तस्तत्रागत्येत्थमब्रवीत्-'भो युवां विवेकिनौ स्था, भवद्भयामीहक् शोको न कार्यः, यतोऽस्मिन् संसारे ये
केऽप्यमी भावा दृश्यंते ते सर्वेऽपि विनश्वराः संति, मृत्योः सर्वसाधारणत्वात्। तस्मात् शोकं विमुच्य सद्धर्मसाधनं धैर्यमालंबनीयं।' अथैवं वैरण्यसाराभिर्वाग्भिरेतौ प्रबोध्य राजा अभयकुमारमंत्रियुक्तः स्वगृहं ययौ । ततस्तौ दंपती अपि तं सर्व पूर्वकृतदुष्कर्मणां विपाकं मत्वा विगत शोको भूत्वा विशेषतो धर्मकर्मणि प्रयत्नवंती
SAHASRANASA
RECA2
Jain Education Intel
For Private & Personal use only
1
w w.jainelibrary.org