SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ II अथ स कार्तिकराकायां सैन्यसंयुतो नरेन्घो नगराधाजपाटिकायै विनिर्ययौ। तदा ताम्रपतवं मञ्जरीपुञ्ज पिञ्जर बत्राकारं सदाफलमेकमासूमजादीत् । तस्य कान्तस्य चूतस्य मङ्गसार्थमेकां मञ्जरी नृप श्राददे ।। ततः सर्वे सैन्यलोकाः पत्रपक्षवमञ्जरीरादाय दारुशेषं तं वितेनिरे । ततः क्षणान्तरे नृपस्तत्रायातः। सो श्रायः कुत्रेति नृपो मन्त्रिणं पान । मन्त्रिणा तस्मिन् काष्ठशेषे प्रदर्शिते पुनरपृचत्-"ईदृशोऽसौ कथ-12 मजून " । सचिवोऽवक्-"स्वामिन् ! अस्य महातरोः पूर्व मञ्जर्येका युष्मानिर्जगृहे, ततः सैनिकाः | 13 सर्वे पत्रपुष्पफलादिकं गृहीत्वाऽश्रीकं धनिनं तस्करा इव चक्रुः" । तदाकयं नृपो दध्यौ-"अहो ! श्रियां चञ्चलत्वं ! यत्तादृशोऽप्यसावायः क्षणानिःश्रीकतां गतः। यतः यदेव तुष्टिकृत् पूर्व, स्यात्तदेव क्षणान्तरे । जायतेऽनीदृशं वान्ति-वमितं नोजनं यथा ॥१॥ यथा हि बुद्दाटोपः, सन्ध्यारागश्च न स्थिरः। संपदोऽपि तथा सर्वा, न स्थिरा इति निश्चितम् ॥२॥ एवं विमृश्याहतसाधुधर्मः, प्रत्येकबुध्धश्चतुरश्चतुर्थः। गान्धारराट् नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १ ॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५० ॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy