________________
Jain Education International 2010
431 तस्मादिदं विक्रमवयोरूपविजुत्वविजवादिकं पताकाञ्चलचञ्चलं प्रत्यक्षमेव वीक्ष्यते । एवं सत्यपि जनोऽज्ञानाद्यथास्थितं न जानाति । ततोऽहं जन्म सार्थकं स्वभावधर्मानुयायिनं करोमि ” ।
ध्यात्वेति कृत्वा स्वयमेव लोचं, विभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्ध जिनधर्मरागी, जुवि व्यहार्षीत् करकरमुराजः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विंशे स्तम्नेऽष्टचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४८ ॥
एकोनपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३४९ ॥ द्वितीयप्रत्येकबुद्धमाह -
अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् । राज्ञो विमुखसंज्ञस्य, ज्ञातं वक्ष्यामि तद्यथा ॥ १ ॥ काम्पियपुरे हरिवंशे यवानिधो नूपोऽभवत् । तस्य गुणमाला प्रियाऽऽसीत् । अन्यदाऽऽस्थानस्थः देशान्तरादागतं दूतं पप्र - " श्रन्येषां राज्ये विद्यमानं मत्राज्ये किं न विद्यते ?" । दूतोऽवादीत् - " हे विजो ! तव राज्ये चित्रसन्ना नास्ति” । ततो नृपः स्थपतीन् चित्रकारानाकार्य जगौ - " मम चित्र - | सजा क्रियताम् । प्रमाणमिति प्रोच्य शुभे दले सनान्यासेन्छया जुवः खातं प्रारेनिरे । पञ्चमे दिने
For Private & Personal Use Only
www.jainelibrary.org