________________
381
एकचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४१ ॥
श्रौत्पत्तिकीबुधिमाहऔत्पत्तिक्यादिबुद्धिज्ञो, रोहकोऽजानेषु यत् । महामान्यस्तथा धार्यो, धर्मवनिर्गुणोत्तरः॥१॥
स्पष्टार्थः । दृष्टान्तश्चायम्8| अवन्तिसमीपे नटाहग्रामे जरतो नाम नटः । तस्य नार्या परासुरजूत् । तस्यौत्पत्तिकीबुधिमान् ।
रोहकनामा सुतोऽस्ति । लरतनटोऽन्यां स्त्रियमानिन्ये । सा रोहकस्यान्नपानादिनक्तिं सम्यक् न कुरुते । ततो रोहकेण सा कश्रिता-"मातः! न मे सम्यग्वर्तसे त्वं, ततो ज्ञास्यसि" । साऽह-"रे सपत्नीपुत्र !|5|| किं करिष्यसि ?" । सोऽवक-"तत् करिष्यामि, येन त्वं मे पादयोलगिष्यसि । ततोऽन्यदा स निशि सहसा पितरं माह-"नो नो पितर् ! एष नष्ट्वा याति” । इति श्रुत्वा पिता शंकितः "नूनं विनष्टा मे जार्या" । एवमाशक्य तस्यां निःस्नेहोऽनूत् , तां वाचापि न संजापते । ततः सा बालकृत्यं ध्यात्वा | तमवादीत्-"वत्स! किमिदं त्वया चेष्टितं ? तव पिता मे सहसा पराङ्मुखोऽजूत्, ममापराध क्षमस्त्र" सोऽवक्-"तर्हि मा खेदं कुरु” । तदनु सा तस्य शुश्रूषां तनोति । एकदा रोहकश्चन्द्रकान्त्यां पितुः । शङ्कापनोदाय बालस्वरूपेण निजलायामङ्गुष्यप्रेण दर्शयन् पितरमाह-“हे पितर् ! एष स याति” । स खड्गमादाय रे कथय कुत्र याति ? । स शिशुरगुट्या निजलायामदर्शयत्-'एष मया शृङ्खखितः' । इति
ESIKUSSBOCCES
____JainEducation international 2017
For Private Personal Use Only
www.jainelibrary.org