SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010] 337 ङ्गेषु नग्नेषु को विनयः ?” । सद्यस्तैर्द्वरे निष्कासितो रुष्टः प्राह - "अहं पितुराज्यं प्राप्य युष्मान् निग्रहीष्यामि " इति संलप्याने गछन् मार्गे सिंहं वीक्ष्य करकृत निशितकरवालो दर्पात्संमुख एव गतवान् । सिंहेन जक्षितः खरो जातः । ततः करजः, ततः पुनरपि नन्दिपुरे पुरोहितस्यैव सुतो जातः । शैशवेऽपि चतुर्दश विद्यापारगो महाहङ्कारवशान्मृत्वा तत्रैव पुरे गायनो कुम्बो जातः । पुरोहितस्तं दृष्ट्वा महास्नेहवान् जायते । इतश्च केवलज्ञानी तत्रागात् । केवली पृष्टः पुरोधसा - “ ममायं रुम्बोऽतीव वल्लनः कथं ?" । केवलिना पूर्वजवसंबन्धः सर्वः प्रोक्तः । तच्छ्रुत्वा गायनोऽपि जातिस्मृतिं प्राप्य श्रीमत्केवला निपरमात्मवचनश्रवणरसिकः पुनः स्वोच्चरणस्वरूपं पप्र । तदा श्री सर्वज्ञेनानेकस्याघादपक्षसमन्वित त्रिकरण योगशुद्धिकरणस्वरूपं प्रकाशितम् । मोक्ष्योगविचारो निरूपितः । तथाहि मोण योजनाद्योगः, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णार्था - लम्बनैकाग्र गोचरः ॥ १ ॥ श्रत्र मिथ्यात्वादिहेतुगतमनोवाक्कायरूपं योगत्रयं तच्च कर्मवृद्धिहेतुत्वान्न ग्राह्यं, किंतु मोक्षसाधनहेतुभूतं ग्राह्यम् । सकलकर्मक्ष्यो मोक्षः, तेन योजनाद्योग उच्यते, स च सर्वोऽप्याचारो जिनशासनोतश्चरण सप्ततिकरण सप्ततिरूपो मोक्षोपायत्वाद्योग इष्यते । तत्र विशेषेण स्थान १ वर्ण २ अर्थ ३ आलम्बन ४ एकाग्रता । इति पञ्चप्रकारो योगो मोक्षोपायहेतुर्मतः इति, अनेनैतदुक्तम् - अनादि| परजावासक्तानां जवज्रमणग्रहात् पुजलजोगमग्नानां न जवत्ययमजिप्रायः, यतोऽस्माकं मोदः साध्योऽस्ति, | स च गुरुस्मरणतत्त्व जिज्ञासा दियोगेन स्वरूपनिर्मलं निःसङ्गं परमानन्दमयं परमात्मानं संस्मृत्य तत्कथा For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy