SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 05 325 क्षितश्चासीत् । ज्येष्ठः साङ्गोपाङ्गवेदादिशास्त्राण्यधीत्य पाटखी पुर्या ततः स्वपुरे प्रविशन् राज्ञा गजस्कन्धेऽध्यारोप्य गृहे स्थापितः सन्मानितश्च । श्रथ गृहाभ्यन्तरे जननीं नन्तुं नृपदत्तसन्मानावृतो जगाम । 'दे पुत्र ! तव स्वागतं वर्तते' इत्युक्त्वा मौनमाश्रिता । उदासीनां मातरं वीक्ष्यावोचत् - "मातः ! मां किं न जाषसे । सर्वजनपूज्यं सर्वशास्त्रतत्त्वज्ञं मां दृष्ट्वा किं न मोदसे ?” । श्रथेदं रुपसोमाऽऽख्यत्, किमेनिः स्वान्यनाशकैः । हिंसोपदेशकैः शाख - रधीतैर्नरकप्रदैः ॥ १ ॥ एतेषां च प्रजावे, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः स्यादानन्दः कथं मम ॥ २ ॥ या दृष्टिवादं पठसि त्वं तदा मदात्मा हृष्टः स्यात् । विनीतः पुत्रः स्वाम्बां स्माद् - "तष्ठास्त्रं व पठ्यते ?” । साऽऽद् - "तोसखिपुत्रगुर्वन्तिके” । प्रजातेऽम्बामापृष्ठथ तमध्ये तुं चचाल । इतश्च तत्पितुः मित्रं दिज | आर्यरक्षित मिलनाय सार्धा नवेक्षुयष्टी रादायागात् । स दिजः प्रेम्णा समाविश्य तं प्राह - " त्वन्निमित्तं | मयाऽऽनीता इसुखता इमा गृहाण " । सोऽवादीत् - "इकुसन्दोहो मन्मातुर्दीयताम्, श्रहं तु कार्ये गछामि " । तेन द्विजेन ता इकुयष्टी स्तदम्बायै दत्त्वा तद्वृत्तं कथितम् । तदा जनन्या ध्यातं - " नूनम| नेन शकुनेन सूचितं यदसौ साधिकनवपूर्वाणि पठिष्यति” । श्रधार्यरक्षितः स्वयं गुरुवन्दनक्रियामजानन् ढकुरश्रायेन सह ययौ, श्राद्धानुरूपविधिना गुरुं प्रणम्य स्थितः । तदा श्राद्धो गुरुं प्रति द्विजजातिकुलादिकं प्राह । चतुर्दशानां सविद्या - स्थानानामेष पारगः । प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy