________________
320
॥ १४५ ॥
उपदेशप्रा. ४ चक्रतुः । सुकोशलमुनिर्व्याच्या नक्ष्यमाणः क्षपक श्रेष्यारूढः केवलज्ञानमवाप्य सद्यो मुक्तिं ययौ । ततः कीर्तिधरमृषिं जयन्ती व्याघ्री तन्मुखे स्वर्णख चितदन्तान् दृष्ट्वा जातिस्मृतिं प्राप्ता स्वपतिं विज्ञाय प्राप्तपश्चात्तापा समादायानशनं सहस्रारं स्वर्गे गता । कीर्तिधरोऽपि शुक्लध्याने नाजरामरं पदं प्रापेति । लब्धोपसर्गोऽपि जौ न तत्त्वगं, दा जवोघेगरतः सुकोशलः । तघद्धतार्हेर्मुनिनावसङ्गतै-र्धार्या तथा कीर्तिधरर्षिवन्मतिः ॥ १ ॥ इत्यन्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादवृत्तौ धाविंशे स्तम्ने षड्विंशत्यधिकत्रिशततमं व्याख्यानम् ३२६ ॥
Jain Education International 2010_05
सप्तविंशत्यधिकत्रिशततमं व्याख्यानम् ३२७ ॥
निर्वेदी जीवो मोक्षसाधनोद्यमवर्ती लोकसंज्ञायां न मुह्यति, लोकसंज्ञा हि धर्मसाधनन्याघातकरी ज्ञेयाऽतस्त्याज्यैवेत्याह
लोकमालम्ब्य कर्तव्यं कृतं बहुनिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥ १ ॥ चेत् यदि यद्बहुभिः कृतं तत्कर्तव्यं लोकमालम्ब्य एवं क्रियते तदा मिथ्यादृशां धर्मः कदापि न त्याज्यः स्यात्, तच्च बहुभिः क्रियमाणत्वात् । म्लेछाचारी लोको बहुतरः, यतः अनार्येभ्य श्रार्याः
For Private & Personal Use Only
स्तंच. १२
॥ १४५ ॥
www.jainelibrary.org