________________
उपदेशप्रा.
॥ १३८ ॥
Jain Education International 2010_
306
समानय । यदीच्छेदिपुलां प्रीतिमिति श्रुत्वा सोऽपि स्त्रीपराधीनो विषयनिदुः तस्कर क्रियया राजसौधे गतवान् । नृपं जाग्रतं वीक्ष्य प्रन्नं नृपपश्यङ्काधोजागे गत्वा स्थितः । तदा नृपेण गर्दगरेणैकस्य काव्यस्य त्रीणि पदानि नूतनानि रचितानि चतुर्थपदं कथमपि तत्र न समेतं तेन पुनः पुनस्तान्येव स्मरति, तथाहि
“चेतोहरा युवतयः स्वजनानुकूलाः, सद्वान्धवाः प्रणयन्त्र गिरश्च नृत्याः । गर्जन्ति दन्ति निवहास्तरलास्तुरङ्गाः,"
इति त्रीणि पदानि पुनः पुनः समुच्चारयन्तं ज्ञात्वा स शास्त्रज्ञश्चतुर्थपदमपूरयत्, तथाहि" संमीलने नयनयोर्न हि किञ्चिदस्ति ॥ १ ॥ "
इति श्रुत्वा सहसा चकितो दध्यौ - "अहो ! यामिकान् विप्रतार्य मत्सद्मनि क आगतो विद्यते ? | देवो मानवो दानवो वा प्रकटीजवतु" । ततः स वेपमानदेहः प्रकटीभूय जगौ – “स्वामिन् ! तव गर्व |हरणार्थ चतुर्थपादपूरणायानेन नूतनमार्गेण समायातोऽस्मि ” । नृपः प्राह - "सत्यं ब्रूहि किमसत्यं ब्रूषे ?" । ततः स यथा जातं ज्ञातं प्राह । नृपस्तु हारं तस्मै दत्त्वा गुरुत्वादवध्योऽयमिति विचार्य तं मुक्तवान् । श्रथ नूपस्तद्दचसा प्रबुद्धः प्रजाते श्रीमत्सुधर्मगुरुसमागमनं कञ्चुकिपुरुषाविज्ञाय हर्षेण तत्र गत्वा श्रीगुरुं नत्वा धर्मदेशनामिति शुश्राव -
१ समासश्चिन्त्यः, स्वजना अनुकूलाः.
For Private & Personal Use Only
स्तंज. २१
॥ १३८ ॥
www.jainelibrary.org