________________
४०२३
Jain Education International 2010
295
विंशत्यधिकत्रिशततमं ३२० व्याख्यानम् ॥ अथ निर्भयतागुणमाह
एकं ब्रह्मास्त्रमादाय, निघ्नन्मोहचमूं मुनिः । विनेति नैव सङ्ग्राम - शीर्षस्थ इव नागराट् ॥ १ ॥ स्वरूप नवति । किं कुर्वन् ? मोहचमूं मोहसैन्यं निघ्नन् ध्वंसं कुर्वन् । किं कृत्वा ? ब्रह्मास्त्रं ब्रह्मज्ञानमात्मस्वरूपावबोधस्तदेवास्त्रं शस्त्रमादाय । क इव ? सङ्ग्रामस्य शीर्षमग्रेसरत्वं तत्र तिष्ठ - तीति सङ्ग्रामशीर्षस्थः नागराट् गजश्रेष्ठ इव, यथा गजेशः सङ्ग्रामे न विनेति तथा मुनिः कष्टेऽपि कर्मपराजये प्रवृत्तो न जयवान् स्यात् शरीरादिसर्वपरजाव विरतत्वात् ।
त्रार्थे स्कन्दकर्षिदृष्टान्तः -
श्रावस्त्यां जितशत्रुसुतः स्कन्दकोऽभूत् । तद्भूपसुता पुरन्दरयशा जितशत्रुभूपेन कुम्नकारपुरेशाय दमनूपाय परिणायिता । तस्य पालकानिधोऽनन्यः पुरोहितो दुष्टोऽस्ति । अथान्यदा सुव्रतस्वामी श्रावस्त्यां समवासार्षीत् । धन्यंमन्यः स्कन्दकस्तं नन्तुमगात् । श्रीजिनदेशनां श्रुत्वा श्राद्धधर्म प्रत्यपद्यत । एकदा स पालकः पुरोधाः किञ्चिषाजकार्यार्थं श्रावस्त्यामाययौ स च नूपसजामध्ये निर्म न्यगणां कुर्वन् द्रुतं स्कन्दकेन निरुत्तरीचक्रे । तदनु तदुपरि द्वेषं वहन् स स्वास्पदं ययौ । ततो मुक्तभोगः स्कन्दको विरक्तचेता मर्त्यानां पञ्चनिः शतैः साकं श्रीजिनान्तिकं प्रात्राजीत् । क्रमात्स्क -
For Private & Personal Use Only
www.jainelibrary.org