________________
Jain Education International 2010_C
200
अत्र रतिसुन्दरी संबन्धः स चायम्
साकेतपुरे जितशत्रुपुत्री रतिसुन्दरी, तत्रैव श्रेष्ठिसुता शविसुन्दरी, मन्त्रिसुता बुद्धिसुन्दरी, पुरोहिततनुजा गुणसुन्दरी, चतस्रोऽपि सुरूपाः सुश्राविका धर्मगोष्ठी देवगुरुस्थले धर्मक्रियां वितन्वत्यः परपुरुपनियमं जगृहु: । इतश्च नन्दपुर विजुना रतिसुन्दरी परिणीता, तस्या रूपलावण्यं सर्वत्र प्रसृतम् । | सैकदा हस्तिनागपुरेशेन दूतमुखेनार्थिता । नन्दपुरेशः प्राह - " सामान्यजनः स्वकलत्रं नार्पयति, कथमहं तामर्पयामि ? याहि स्वस्थानम्" इति प्रोके स दूतो गत्वा स्वस्वामिनेऽकथयत् । योर्युद्धे हस्तिनागेशस्य जयोऽनूत् । रतिसुन्दरीं लात्वा स्वस्थानं गतः । साऽर्थिता प्राह - "मम चतुर्मासकं यावछीलं वर्तते " । राज्ञाऽचिन्ति - "पश्चादपि ममायत्ताऽस्ति" । सा सदा प्रतिबोधं ददाति । तस्य राज्ञो रागो न याति । ततो नृप श्रह - "नजे ! त्वया प्रतिदिनं देशना कृता, तपसा कृशाङ्गी जाता, त्यक्तनेपथ्याऽपि च, तथापि मम मनो बाढं त्वयि रक्तम् । किं स्तूयतेऽङ्गमन्यत् ? तव लोचनसुजगत्वमात्रमपि वर्णयितुमशक्यम्” । तया स्वशीलखोपके स्वनेत्रे ज्ञात्वा नृपपुरस्तत्क्षणं लोचने निष्कास्य कृपाण्या याकृष्य नृपकरे स्थापिते । राज्ञः खेदः संजातः । सा देशनां चकार । तेन क्षमिता । सोऽत्यन्तं दुःखं दधाति मदर्थमनया लोचने कर्षिते । तस्य दुःखापनोदाय तयाऽऽराया देवता । तया दत्ते घे । लोचने । तस्याग्रहतो दिनानि कियन्ति स्थित्वा दीक्षामादात् । इति रतिसुन्दरी ॥
1
I
For Private & Personal Use Only
www.jainelibrary.org