________________
264 उपदेशप्रा. क्रियामुक्तं संवेदनज्ञानं वाङ्मात्रव्यापार मनोविकटपरूपं व्यर्थ वन्ध्यं च न मुक्तिसाधकम् , मार्ग-1 संज. ५१ ज्ञाताऽपि गतिं विना चक्रमणेन विना इञ्चितपुरं नामोति ॥
पुनस्तदेव दृढयन्नाइस्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते ।
प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकं यथा ॥ ३ ॥ | तत्त्वबोधप्राप्तिरूपस्पर्शज्ञानपूर्णोऽपि कार्यसाधनहणे स्वकार्याही क्रियामपेक्षते, तदर्थमेवान्श्यक-21 ६ करणं मुनीनाम् । यथा प्रदीपः स्वयंप्रकाशोऽपि तैलपूर्त्यादिक्रियां तनोति ॥
अथ क्रियानिष्पादनफलमाहगुणवद्बहुमानाद्यै-नित्यस्मृत्या च सत्क्रिया ।
जातं न पातयेनाव-मजातं जनयेदपि ॥४॥ | सम्यग्यतिधर्मादिगुणवतां बहुमानम्, आदिशब्दात् पापगञ्चातिचारालोचनादिकं सर्व ग्राह्यम् । च पुनर्नित्यस्मृत्या पूर्वगृहीतव्रतस्मरणादिना या सक्रिया सा जातं नावं न पातयेत्, अपि चाजातमनुत्पन्नं शुक्नध्यानादिकं जनयेन्निष्पादयेत् । श्रेणिककृष्णादीनां गुणिबहुमानेन, मृगावत्याः पश्चात्तापेन, अतिमुक्तस्य चाखोचनेन, रतिसुन्दर्याः स्थिरतया इत्याद्यनेकजव्यानां परमानन्दनिष्पत्तिः ॥
SSSSSSSSSSSS
SASSISTEGASEOSAGASWARA
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org