________________
उपदेशप्रा.
॥ ए४ ॥
Jain Education International 2010_|
218
कृत्वः पयसा प्रदास्य स्वयं भुङ्क्ते । अथ स मृत इन्द्रोऽभूत् । पृष्टं च तेन देवानां - "पुरा केनायं स्वर्गः कृतः ? " । इत्युक्ते देवा जगुः - " न केनापि कृतोऽयं, स्वयं सिद्धः” । ततः शक्रो दध्यौ - "जीर्णो ऽयं, तेन नवीनं स्वर्ग करिष्ये” । देवैरुक्तं - "नवीनः स्वर्गो न केनापि कर्तुं शक्यते"। शक्रोऽवक्"पूर्वेन्द्रा अशक्ताः, अहं तु समर्थोऽस्मि ” । ततः सुरा जगुः - " स्वामिन्! पूर्वं मर्त्यलोकं विलोकय पश्चात्स्वेहितं कुर्याः” । तत इन्डो नरलोकं प्रष्टुं गतः कस्मिंश्चिघनेऽर्कतरुमूले लोमशनामर्षिस्तपस्तप्यमानो दृष्टः, इन्द्रेणेत्युक्तः - " कथं मतं विना तपः सहसे ? " । तत कपिरवकू - चतुर्दशचतुष्किकासु गतासु ममैकं रोम पतति, सार्धत्रिकोटी रोम्णां पतिष्यति तदा मे पञ्चत्वं जावि, अद्यापि शिरस्तश्चत्वारः । केशा न च्युताः सन्ति, चतुष्किकैका विंशतिसहस्राधिकत्रिचत्वारिंशदैर्वर्षाणां स्यात्, सर्वरोमसु पतितेषु मे मृत्युः, अतोऽनित्योऽयं देहः, यदि शाश्वतं वपुः स्यात्तदा मठादिस्थान मोहो विधीयते मया" तत इन्द्रो दध्यौ - " अस्य यतेरये ममायुस्तुषारलवमात्रं, अतः स्वर्गकरणे को व्यामोहः " । ततो निवृत्त इन्द्रः स्वस्थानं गतः । इत्यनित्यवाक्यं श्रुत्वा दध्यौ - " कुलजातो धर्मो न प्रशस्यतरः श्रतः परीक्षां विधाय ज्ञानधर्मं श्रयामि" । नानादर्शनान्यवलोकमानः क्वापि मते परिव्राजं धर्मं पप्रञ्ज । प्रजुषा धर्मत्रिपद्युक्ता - महं मुंजेवं १, सुदं सोनं २, लोअप अप्पा कायबो ३, जीर्णे जोजनं रुच्यनुरूपं, मृदुशय्यायां सुखं शयनं, मंत्रौषधादिना लोकप्रिय आत्मा भवेत् । इति श्रुत्वा सोमवसुर्दध्यौ - " नासौ सम्यग्धर्मः, पापप्रवृत्तिमयत्वात्" । पुनरन्यत्र साधुपार्श्वे त्रिपद्यर्थं पृच्छति । साधुरव क् - " एकान्तरेऽकृ
For Private & Personal Use Only
स्तंज. २१
॥ ए४ ॥
www.jainelibrary.org