________________
Jain Education International 2010,
शरधोरणी विधं भूमिनिपतितमाजन्मशीलितदानशीलं श्री कर्णनरेन्द्रं दातृत्वपरीक्षार्थं किञ्चिदेहीति वदनुपागतः स्वीकृतविप्ररूपो विश्वेश्वरः । श्री कर्णोऽप्यन्यत्किञ्चिन्नास्तीति विश्विन्त्य यावत्स्वयमादत्तेन पापा ऐन स्वर्ण रेखाञ्चितान् स्वदन्तान् पातयितुमुद्यतस्तावत्तुष्टोऽस्मीति वदन् प्रादुरासीत् पुरुषोत्तमः । 'हे परमेश्वर ! तव दर्शनेन सिद्धोऽस्मि, परं यदि तुष्टोऽसि तदा यत्र कोऽपि न दग्धस्तत्र मे दाहकर्म कुरु" इति वादिनं श्री कर्णमादायान्यत्र तादृशं स्थानमलजमानो हरिः पयोधौ स्तम्नोपमस्य गिरेः शृङ्गं तादृशं मत्वा यावत्कर्ण चितां कर्तुमुद्यतस्तावदिति नजोगीरभूत्
66
छात्र कोणशतं दग्धं पाएकवानां शतत्रयम् । दुर्योधनसहस्रं च कर्णसङ्ख्या न विद्यते ॥ १ ॥ तेन यदि पावानां शतत्रयी तत्र दग्धा तदाऽस्माकमपि पञ्च पाएकवाः शत्रुञ्जये सिवाः, श्रीमतामपि पारमवा हिमालये सिया इति किमसमञ्जसं ? " इत्युक्त्या तुष्टेन राज्ञा विसृष्टाः प्रतिश्रयमगुः । इति दृष्टान्तं श्रुत्वा महति कष्ट उत्पन्नेऽपि बुद्धिमान् सिद्धान्तशब्दार्थान्न दूषयति इति परममुनित्तिः परमरहस्यं निर्णीतं तदासेव्यं ।
अथ मातृकापाठ करटकज्ञातं निगद्यते - धनसारे ग्रामेऽतीव मूर्खा बहवो जरटका वसन्ति । आत्मनां मध्ये कोऽपि परिमतो नास्तीति मत्वा तैरशेषैः संभूयैको जरटको नन्दनाख्यः कस्यापि परिमतस्य पार्श्वे पठनार्थममोचि । जातिविशेषेण नृशं बालिशः सोऽपि नन्दको वर्षत्रयेण मातृकापाठमेवापावीत् । " वेदमाताऽनेनाधीता" इति प्रतिपाद्य तेन विदुषा स तेषां जरटकानां प्रत्यर्पितः । महाजकैस्तैरपि
For Private & Personal Use Only
www.jainelibrary.org