________________
उ० ३७
Jain Education International 2010_0
मायां तु जिनत्वं नास्ति निश्चयतः, ततः किमिति सा वन्द्या ? साघुरूपे च किमिति वन्दनप्रतिषेधः १ तदा स वादी स्माह-असंयतदेवाधिष्ठितयतिरूपे वन्द्यमाने ततासंयम रूपपापानुमतिः स्यात्, न त्वसौ | प्रतिमायां । श्रत्रोच्यते ननु देवताधिष्ठितप्रतिमायामप्यनुमतिलक्षणो दोषो जवेदेवेति । परः स्माहनायं प्रतिमायां दोषः विशुद्धाध्यवसायस्य जिनबुद्ध्या नमस्यतः । यद्येवं ततो यतिबुद्ध्या यतिरूपं | विशुवाध्यवसायस्य नमस्यतः को दोषः ? येन जवन्तः परस्परं न वन्दन्ते । अत्राह परः - यद्येवं | लिङ्गमात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्या विशुद्धाध्यवसायस्य नमस्यतो न दोषः । तदयुक्तं, पार्श्वस्थादीनां सम्यग्निर्ग्रन्थरूपस्याजावात्, तदजावश्च श्राहारेण विहारेणेत्यादि निर्ग्रन्थ लिङ्गस्यानुपलम्भात् । ततः प्रत्यक्षं दोपवतः पार्श्व स्थादीन् वन्दमानस्य सावद्यानुज्ञालक्षणो दोष एव, उक्तं च
जह वेलंवगलिंगं जाणंतस्स नमन इवइ दोसो । निद्र्धसंऽपि नाऊण वंदमाणे धुवं दोसो ॥ १ ॥ इति । अथ प्रतिमामपि न वन्दध्वे यूयं हन्त यद्येवं शङ्काचारिणो जवन्तस्तर्हि मा देवकृता जवेयुरित्याहारोपधिशय्यादयोऽपि न ग्राह्या । किं चेत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः, यतो निश्चयकारिज्ञांनं विना को जानाति १ किमिदं नक्तं कृमयो वा ? चीवरादौ माणिक्यं वा सर्पो वा ? इत्यादौ सर्वत्र चान्त्यनिवृत्तेः सर्वमनोग्यत्वं प्राप्तमिति । यथा वाऽऽर्याषाढदेवो यतिरूपधरोऽत्र दृष्टस्तथाऽन्ये कियन्तः सुरा जवनिर्दृष्टपूर्वाः ? यदेतावन्मात्रेणापि सर्वत्र जवतामप्रत्ययः १ न हि कदाचि | त्कथञ्चित्क्वचिदाश्चर्यकपे कस्मिंश्चित्तथाविधे दृष्टे सर्वत्र तथाजावाशङ्का युज्यते । तस्माद्व्यवहारनयमा
For Private & Personal Use Only
www.jainelibrary.org