SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०३४ Jain Education International 2010_05 ॥ अष्टादशः स्तम्नः ॥ ॥ षट्पञ्चाशदधिकद्विशततमं २५६ व्याख्यानम् ॥ थाष्टौ ज्ञानाचारास्तेष्वाद्यमाह - पठनीयं श्रुतं काले व्याख्यानं पावनं तथा । श्राचारः श्रुतधर्मस्य चाद्यो यलिख्यते बुधैः ॥ १ ॥ स्पष्टः । नवरं श्रुतमेकादशाङ्गयुत्तराध्ययनादि कालिकं श्रुतं दिवारात्रौ प्रथमचतुर्थीपौरुष्योरेव उत्कालिकं श्रुतं दशवैकालिकादि दृष्टिवादश्च सर्वासु पौरुषीषु काले च । सूत्रपौरुप्यां सूत्रं पठनीयं गुणनीयं वा, पौरुष्यां त्वर्थः उत्कालिकश्रुतादि वा । यदिह दिननिशाद्यन्तपौरुषीय एवास्वाध्याया - जावे पठ्यते तत्कालेन निवृत्तं कालिकं १ | कालवेलावर्ज यत्पठ्यते तत्कालिकं २ । उजयोरपि श्रुतयोरस्वाध्यायकालो लघुघटीयप्रमाणः, प्रत्यहोरात्रं च चतस्रः कालवेलाः परिहार्याः, तद्यथा - प्रस्थिते सूर्ये १, अर्धरात्रे २, प्रजाते ३, चतुर्थी च दिवसमध्यजागे ४ । एतासु चतसृष्वपि निरन्तरं स्वाध्यायो न क्रियते । शेष क्रियाणां प्रतिलेखनादीनां तु न प्रतिषेधः । लोकेऽपि कालवेलायां सन्ध्यावन्दनादि ५ क्रियते, यतो द्विजानां प्रत्यहं तिसृभिः सन्ध्यानिश्चतुर्विंशत्यधिकशतत्रयसङ्ख्य्या गायत्रीमन्त्रः प्रत्यहं पूर्वी कार्यः । दुष्टवेलायां सर्वत्र सूत्रादिपठनं सर्वथा निषिद्धं, उक्तं चान्यैः For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy