________________
Jain Education International 2010_0
|न्वितः श्री वीरपरमात्मा त्वन्मुक्ततेजोलेश्यया न स्वरूपमपि क्रोधमगमत् प्रत्युत तैः प्रबोधस्त्वां प्रति दत्तः, अपात्रत्वान्न त्वं प्राप्तवान्, अतोऽदं सुमङ्गलः पूर्वसाधुनिः सदृशः क्षमावान्नास्मि, अहं सरथं सहयं सारथियुक्तं त्वां तपस्तेजसा जस्मसात्करिष्यामि " । इति श्रुत्वा विमलवाहनेनात्यन्तसंजातक्रोधेन तृतीयवारं मुनेरुपरि रथः खेटितः, मुनिर्जूमौ पतितः । तदोत्पन्नक्रोधेन मुनिना तेजःसमुद्धातं कृत्वा सप्ताष्ट्पदान्यपसृत्य सरथः सहयः ससारथिर्विमलवाहनो जस्मीकरिष्यते । ततो मुनिर्विचित्रषष्ठाष्टमतपः कर्मनिर्वहुवर्षाणि यावत् श्रामण्यपर्यायं प्रपास्य माससंलेखनयाऽऽलोच्य प्रतिक्रम्य सर्वार्थसिद्धिवि - मानं यास्यति । अथ स नृपो मृत्वा सप्तमश्वचे ज्येष्ठायुषा जावी । तत उद्धृत्य मत्स्यत्वमनुभूय द्वितीयवारं सप्तमनरकं प्राप्स्यति । तत उद्धत्य मत्स्यत्वे बहुकदर्थनां प्राप्य पष्ठयां पृथिव्यामुत्कृष्टायुर्युक्तो नारकी जावी, ततः स्त्रीत्वं, पुनस्तमायां नारकत्वं पुनः स्त्रीत्वं । तत्रानेककदर्थनां प्राप्य धूमप्रजायां गमिता । तत जरः परिसर्पत्वेन जावी । तत्र शस्त्रेण वधं प्राप्य पञ्चमपृथिव्यां पुनरुरः परिसर्पत्वं । ततश्चतुर्थ्या पङ्कप्रजायां । ततो निःसृत्य सिंहत्वं, पुनश्चतुर्थ्या । जूयः सिंहत्वं । ततो वालुकायां पृथिव्यां । तत उद्धृत्य पक्षित्वं । पुनर्वालुकाप्रजायां । ततो निःसृत्य पक्षित्वं । ततः शर्कराप्रजायां । तत उद्धृत्य सरीसृपत्वं पुनर्द्दितीयपृथिव्यां । जूयः सरीसृपत्वं । ततो रत्नप्रजायामुत्पद्य निःसृत्य चासंज्ञित्वं प्राप्य प्रथम नरके गमिष्यति । एवं च यथोक्तक्रमेण चासंशिप्रभृतयो रत्नप्रजादिषु उत्पत्स्यते इत्यसौ तथैवोपपा - दितः । श्रह -
For Private & Personal Use Only
www.jainelibrary.org