________________
उपदेशप्रा.
॥ १९४॥
Jain Education International 2010_05
त्रिभुवनैकगुरोरवज्ञां करोषि ? अनया चेष्टया श्वज्रपतनं तव जाति” । इति वाक्येन रुष्टः स तं मुनिं | तेजोलेश्ययाऽदीदहत् । पुनर्जगदीश्वरमयोग्यवाक्यैरनिन्दयत् । तदा प्रभुः प्राह - " किं कुबुद्ध्या मिथ्यात्वेन च कुर्लनं नरत्वं पातयसि हीनगतौ ?” । ततः स क्रुद्धः सप्ताष्टपदान्यपसृत्य तेजोलेश्यां मुमोच जिनोपरि । सा जिनं प्रदक्षिणीकृत्य व्याघुट्य गोशालतनुं प्रविवेश । तदा स बाह्यप्रातिदायें कालिमानं वीक्ष्य स्माह - " मत्तपस्तेजसा परमासमध्ये कालं प्राप्स्यसि । प्रजुः स्माह - " श्रहं षोमश वर्षान् केव - ४ लिपर्याय मनुजविष्ये, परं त्वं सप्ताहे पित्तज्वरपरिगतश्वद्मस्थः सन् कालं प्राप्स्यसि” । ततः प्रजुः सर्वान् साधूनामन्ध्याख्यत् - "यूयं धर्मचोदना निरस्य शिक्षां दत्त" । ततस्ते धर्मयुक्तिस्तिम शिक्षयन् । सोऽवि प्रत्युत रुष्टो मुनीनां बाधाकरमुपायमचिन्तयत् परं हतशक्तिकत्वान्निष्फलायासो जातः । ततः स “हा हा ! अस्य महापुरुषस्य वाक्यं निष्फलं न स्यात् " इति विचिन्त्य दीर्घ निःश्वस्य " हा हा ! किं जातं?" इत्युच्चरन् पादौ भूमावास्फाय हालाहला कुम्नकार्यापणे समागात् । शीतार्थमाम्रफल - स्तोजीणं मद्यपानेन नृत्यति स्म । तदा जिनेशः सर्वसाधून स्माह - "अनेन मध्धार्थं तेजोलेश्या मुक्ता सा षोमशजनपदान् जस्मसात्करोति एतादृशी प्रहिता, परं सैतस्यैव देहे प्रविष्टा । अधुना स तदनया शीतोपचारान् करोति" । श्रथ स गोशाल श्राजी विकोपासकानां स्वभक्तानां चरमोपदेशं ददौ । ततः स सनं स्वकाखमवबुध्य प्रामहापुरुषोत चिह्नः स्वशिष्यानेवं प्राह - "यूयं कालप्राप्तं मां विज्ञाय सुगन्धोदकेन संस्नाप्य गोशीर्षचन्दनेन गात्रं विलेप्य पुरुषसहस्रवाह्यशिविकायामारोप्य श्रावस्त्यां त्रिपथे
For Private & Personal Use Only
स्तंच. १४
॥ १९४॥
www.jainelibrary.org