________________
तन्मध्यनायकीकृत्य हारयुग्मं विधाप्य च । शत्रुञ्जये रैवते च प्रैषीत् पूजार्थमहतोः॥१॥ ततः पत्तने सङ्घ सत्कृत्य विसर्जयामासेति। कुमारपाखवघ्नक्त्या विधिना तीर्थपूजनम् । अन्यरित्यं विधातव्यमवद्यज्यूहनित्तये ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती
त्रयोदशे स्तम्ने १३ व्याख्यानम् ॥
॥ व्याख्यानम् ॥ १४ ॥ अथ स्नानविधिमाहस्नानादिसर्वकार्याणि विधिपूर्व विधापयन् । हिंसानिः (न्यः ) मनसा जीरुः सर्वज्ञसेवनापरः ॥१॥ स्पष्टः । स्नानविधिस्त्वयं-अधःस्थापितलाजनप्रतिनालिकपादपीठोपरि पूर्वाभिमुख उत्तरानिमुखो 31 वा स्थित्वा पनककुन्थुकीटिकामर्कोटकादिरहिते सम्यक्बुषिराद्यदूषिते जूनागे सातपक्षेत्रे वा न तु | शब्दायमानशिलाप्रदेशे तदधोवासिजीवरदार्थ प्रथमं पुञ्जनिकया (प्रमार्जन्या ) प्रमृज्यानितश्चर्या निरीक्ष्य निरीक्ष्य तत्र तिष्ठति, यदि स्वप्रत्याख्यानकालः पूर्णो विज्ञातस्तदा नमस्कारेण पारयितव्यः। उपवासप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुधिरेव, तपसो महाफलत्वात् । यतो खोकशास्त्रेऽपि-| उपवासे तथा श्राक्षे न कुर्यादन्तधावनम् । दन्तानां काष्ठसंयोगो हन्ति सप्त कुलानि च ॥१॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org