________________
Jain Education International 2010
क्वापि पुरे शत्रुजिर्वेष्टिते सति स्वस्वधनानि खात्वा खोका बहिर्मातङ्गाञ्च पुरान्तः प्रविविशुः । तदा | कोऽपीत्यभाषत
जीताः पौराः कर्षयन्ति युष्मान्निघ्नन्ति च दिषः । तत्क्वापि यान्तु मातङ्गा जातं शरणतो जयम् ॥ १ ॥” एवं सोपनये ज्ञाते तेन प्रोक्तेऽपि मुञ्चति गुरौ द्वितीयां कथामब्रवीत् — कापि पुरे नूपो निजैश्वरैः | सर्वदा चौर्यमची करत् । तस्य राज्ञः पुरोधास्तु सर्व जनमनएकयत् । ततः खिन्ना लोका मिथो दध्युः -
यत्र राजा स्वयं चौरो जमकश्च पुरोहितः । यान्तु पौराः पुरात्तस्माजातं हि शरणाप्रयम् ॥ १ ॥” _ इति श्रुत्वाऽपि स्वष्टत्वममुञ्चन्तं गुरुं तृतीयं ज्ञातमूचे – कापि पुरे विप्रोऽतिकामुकः सुरूपां स्वसुतामवेक्ष्य रिरंसुर्लकया न सिषेवे । तं हीएतनुं दृष्ट्वा पल्या निर्बन्धेन पृष्टो जगाद सत्यं । पत्नी पतिप्राणत्राणार्थं स्वपुत्र मिति प्राह - "अस्मत्कुलशीलमिदं प्राग्यमुक्ता सुतः पश्चाधिवाह्यते, अतः कृष्णभूतेष्टनिशायां यक्षालये त्वं व्रजेः । तत्र दीपोद्योतं मा कार्षीः, यक्षः सरोषमपयास्यति” । साऽपि मातृवचः | स्वीचक्रे परं दीपं शरावस्थगितं लात्वा गता । तन्मात्रा प्रेषितो विप्रोऽपि तां निःशङ्कमुपभुज्य सुखमस्वपीत् । श्रथ कौतुकात् तद्दीपेन पश्यन्ती तातं दृष्ट्वा दध्यौ - "अहो मात्राऽपि माया कृता, अद्यप्रनृति श्रयमेव पतिः, मम नर्तक्या नृत्ये प्रारब्धे किं घुंघटकरणं ?” । ततो निःशङ्कं रतश्रान्तौ तौ सुप्तौ, प्रगेऽपि न प्रबुद्धौ । ततो मात्रैत्य प्रोक्तं - "हले ! अद्यापि नो जागर्षि” । साऽवदत् - "हे मातः ! त्वदितं कृतं, यक्षेण ममायमेव पतिर्दत्तः, त्वमन्यं गवेषय" श्रुत्वा माता प्राह
For Private & Personal Use Only
www.jainelibrary.org