________________
Jain Education International 2010_1
वा? यतः शास्त्रे स्तोकस्यापि महत्फलं श्रूयते । एवं ससंशयोऽपि पूजादिकं करोति । श्रन्यदा साधुयुगलं प्रतिखान्य दध्यौ — “यद्येते निर्मलं वेषं धारयन्ति तदा जैनधर्मे किं दूषणं लगति १ अथवा मया दुर्ध्यानं कृतं यतो मुनयः कन्दर्पोपायरूपदेहपरिचर्याकरणशुश्रूषादीन्नैव विदधति” । एवं शुभजावेन शुभकर्म अशुभध्यानेन चाशुजमन्तरान्तरः उपार्जयत् । श्रायुः क्षये विपद्य स देवो भुवनाधिपोऽभवत् । ततश्श्युत्वा त्वं मत्स्योदराख्यो जातः ।
कृत्वा कृत्वान्तरा धर्मो, यत्त्वया दूषितस्तदा । सुखानि दुःखमिश्राणि, लब्धानीह ततः स्फुटम् ॥ १ ॥ इति श्रुत्वा मूर्तितो जातिस्मृतिं प्राप्य सत्यं धर्माधर्मफलं विचार्य पितरावापृष्ठ्य प्राप्तवैराग्यो नृपादिनिः सह दीक्षां जग्राह । वैमानिकदेवसुखं मुक्त्वा महाविदेदे मुक्तिं गतः ॥
मानुष्यका दिसामग्री, लब्ध्वा ज्ञात्वा जवस्थितिम् । धर्मो निरन्तरं कार्यो, निरन्तरसुखार्थिनः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्धवृत्तौ सप्तदशस्तनेपञ्चाशदधिकद्विशततमं २५० व्याख्यानम् ॥
एकपञ्चाशदधिकद्विशततमं २५१ व्याख्यानं ॥ मौनैकादशी कथाप्रारम्नः-
प्रणम्य श्रीमद्दामेयं, पार्श्वयक्षादिपूजितम् । माहात्म्यं स्तौमि श्री मौनैकादश्या गद्यपद्यत् ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org