________________
उपदेशप्रा.
॥१६७॥
Jain Education International 2010_08
चिरं तपस्तपन् ध्यानमग्नोऽस्ति । तत्पार्श्व श्रागत्य तत्कूर्चे चटकचटकी रूपं कृत्वा स्थितौ । चटकः प्राह स्वां प्रियां प्रति नृवाचा - "अहं हिमवन्तं यामि कतिचिद्दिनान्तर एष्यामि " । चटकी प्राह - "तत्र कया| चित्सह रागः स्यात्तदाऽहं किं कुर्वे प्रियन्रष्टा ?” तदा तेन गोहत्यादिशपथाः कृताः, तथाऽपि सा स्माहचेदहं नायामि तदा एतदृषिपापेन लिप्ये ईदृशं शपथं करोषि चेत्तदा गन्न । तछ्रुत्वा रुष्टेन पक्षितर्जनार्थ करौ कूर्चे प्रसारितौ " अरे पहिलौ ! अहं कथं पापी ? ब्रूतं” । तावूचतुः – “हे तपोनिधे ! कोपं मा
कृथाः, आत्मशास्त्रं पश्य । यतः -
पुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात् पुत्रमुखं वीक्ष्य सर्वकार्याणि साधयेत् ॥ १ ॥
पुत्रोऽसि तस्ते कथं गतिः ?” । इति श्रुत्वा स कुजितस्तपांसि हित्वा कोष्ठकनगरे जितशत्रुनृपपार्श्वे गत्वा कन्यां ययाचे । राजाऽऽह - " मम शतमिताः सुताः सन्ति, या त्वां समीहते तां गृहाण " । ततः कन्यान्तःपुरे गतः । कन्या निरसंस्कृताङ्गं तं वीक्ष्य भूत्कृतं । ततो रुष्टेन तेन सर्वा अपि ताः कुन्नीकृताः । ततः पश्चाघलमानेनाङ्गणे रेणुमध्ये एका पुत्रिका मुग्धा क्रीमन्ती दृष्टा । तस्या बीजपूरे दर्शिते तया पाणिस्तत्र प्रसारितः । तत "इयं मां वाञ्छति" इत्युक्त्वोत्पाट्य लात्वा गतः । राज्ञा शापजीत्या सहस्रगोकुलदास्यादियुता सा दत्ता । सदनु नृपप्रार्थनया तेन ताः सखीकृताः । वन श्राश्रमं कृत्वा सहस्रशो लालिता यौवनं प्राप्ता । तस्याः पाणिग्रहणं कृतं । ऋतुकाले चरुघयं ब्रह्मक्षत्रियजनकं साधयित्वाऽर्पितं रेणुकया क्षत्रियचरुर्जक्षितः । ब्रह्मचरुई स्तिनापुरेशानन्तवीर्यस्य नार्यायाः स्वजगिन्याः
For Private & Personal Use Only
तंज. १७
॥१६७॥
www.jainelibrary.org