SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ तातदर्शनं !" इत्यादि विसपन्नमात्योंधितो वालुकाप्रतिविम्बितौ जगवत्पादौ नत्वा पुनस्तात नक्त्यामात्यं प्राह-"एतौ पूज्यौ तातपादौ मा कश्चिदन्यः स्पृशतु" अतोऽष्टयोजनविस्तृतं धर्मचक्रपासादम-15 कारयत्" । इति श्रुत्वा स्तुत्वा चक्री तक्षशिलाराज्य सोमयशसमन्यपिञ्चत् । तस्य चतुविंशतिसहस्राणि राइयः श्रेयांसप्रमुखा पासप्ततिसहस्राणि पुत्राश्चाजूवन् । अथ जरतः सर्वत्र पट्खएमदोणी स्वाज्ञामयीं || विधाय स्वपुरं प्रति प्रस्थितः। अथ मुनिर्निजातन्त्राहारविवर्जितस्तत्र ध्यानतत्परस्तस्थौ । तत्र तस्य मूर्ध्नि || ६ कर्णयोः कूर्चमध्ये च पक्षिणो नीमानि चक्रुः प्रावृषि दर्जाकुराः पादतलं जित्त्वा निर्ययुः, सताश्च शरीरं || वेष्टयामासुः व्याघ्रादयो मुष्टसत्त्वा अपि जसकत्त्वं प्रापुः । इत्थं संवत्सरान्ते तस्य ज्ञानोत्पत्तेरवसरं ज्ञात्वा मानत्यागार्थ श्रीयुगादीशो ब्राह्मीसुन्दयौँ साध्व्यौ तत्र प्रेषीत् । ते तत्रागत्य वलीवितानान्तरितं तं कथश्चिऽपलदयोचतुः-"नो बन्धो बाहुबलिन् ! आवयोर्मुखेन श्रीतातपादास्त्वां समादिशन्ति | मतङ्गजारूढेन केवलं कथं सन्यते ? ततोऽवतर मतङ्गजादस्मात् । मतङ्गजारूढस्त्वं ज्ञानं वाञ्चसि चेत्तदा तक्षशिला कथं निवारिता ?" । इति श्रुत्वा स निर्ग्रन्यो दध्यौ-"अहो ! एते मम भगिन्यौ किमेवं जपतः ? सर्वथा मुक्तपरिग्रहस्य मम गजारोहणं कुतः संभवति ? अथवा ज्ञातमेतत् यतो मानगजारूढोऽहं श्यन्तं कालं वृथैव कदर्थनां प्राप्तः, माने विद्यमाने कथं केवलावाप्तिः स्यात् १ ततो गुणाधिकान् पूज्यान गत्वा नमस्करोमि" इति ध्यात्वा यावत् पाद उत्पाटयति तावदेव केवलज्ञानमुत्पन्नं । देवताप्र Jain Education International 2011 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy