________________
Jain Education International 2010_05
तन्निशम्य जीतः कुत्रापि रतिं न प्राप्नोति । तममरः शिक्षां ददौ - " किं व्यन्तरवाक्येन चान्तोऽसि १ तेन हास्यामुक्तं जविष्यति, त उद्यमं कुरु । यतः -
श्रनिमित्तदृष्टाऽपि जीवितान्तविधायिनी । शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिणः ॥ १ ॥ इदं स्थानं विहायान्यत्र गावः” । ततः समसुखदुःखौ तौ निर्गत्य पाटली पुरोपान्ते जग्मतुः । तत्र वृक्षादिपरिमरिमतमेकं प्रोत्तुङ्गं प्रासादं वीक्ष्यान्तः प्रविश्य रूपलक्ष्मीमपश्यतां । तत्रैका सरसा वर्णिकामरदत्तेन विधिघटितेव पाञ्चालिका दृष्टा । तद्रूपलावण्यादिनिमहितो नैति पुरमध्ये | मित्रानन्दो भूयो नूयः कथनेन श्रान्तो जगौ - " किं पाषाणकन्यायां रतिं बद्धा स्थितोऽसि ? आकाशरोमन्थनमिव निष्फलं " | अमरः प्राह - "हे मित्र ! इतः स्थानाच्चलामि चेत्तदा मम मृत्युर्भवेत्” । तछ्रुत्वा मित्रा - नन्दो नृशं रुरोद | अमरोऽपि तां विना स्थातुमक्षमो रुरोद । तावत्प्रासादकारकः श्रेष्ठी श्रययौ । तेनेदमुक्त - "जो जौ ! युवां किं रुदिथः ?" | मित्रानन्देन सर्व प्रोक्तं, "अतो हे तात ! अस्मिन् संकटे क उपायो जावी ?” । श्रेष्ठी प्राह - " अस्याः कारकः शूरदेवः सूत्रकृत्सोपारकेऽस्ति” । सोऽवो - चत् - " हे तात! मन्मित्रपर्युपासनां करोषि चेत्तदा तत्र गत्वाऽहं पृष्ठामि किमियं पुत्रिका निसर्गतचित्रिता ? वर्तमानमूलस्वरूपं दृष्ट्वा वा ? यदि तस्याः सनावस्तदा बन्धोः समीहितं पूरयिष्ये” । ततः श्रेष्ठिना तत्प्रतीकारेऽङ्गीकृतेऽमरोऽवदत्-"यदि तवापायं श्रोष्यामि तदा मेsसवो यास्यन्ति” । इतरः | स्माह - " दिमास्यन्तर्यद्यहं नायामि तदा मित्रं नास्तीत्यवगन्तव्यं" इत्याश्वास्य सोपारके गत्वा प्राज्यने
For Private & Personal Use Only
www.jainelibrary.org